कुजग्रहे जीवसान्निध्यम्?, नासा आवेदनं कौतुकास्पदम्।

वाषिङ्टण्- उद्वेगकरेण अवगमेन सह अमेरिक्का बाह्याकाश गवेषण अभिकर्ता नासा इति संस्था। नासायाः कुजदौत्य पेटकस्य कुर्योसिट्टी नामकस्य इदं शास्त्रावरणं शास्त्रलोकं सम्पूर्णं अद्भुताविष्टम् अकारयत्। कुजग्रहे जीवस्य सान्निध्यमस्तीति नासायाः नूतनः अवगमः। जेर्णल् सयन्स् इति पत्रिका एक कार्यमिदं प्राकाशयत्। कुजस्य उपरितले त्रिशतवर्षप्राचीनेषु शिलावशिष्टेषु जैवतन्मात्राः सन्ति तिसृभ्यः कुजवर्षेभ्यः प्राक्(षट् भौमवर्षः ) वातावरणव्यतियाने अन्तरिक्षस्थस्य मिथैन् संयुक्तस्य परिमाणे परिवर्तनमभवदिति नासा वदति।

जैवतन्मात्रासु कार्बण् हैड्रजन् ओक्सिजन् इत्येतानि प्रायः भवन्ति। जीवस्य सान्निध्यस्य निदानम् एतदेव भवति।

Leave a Reply

Your email address will not be published. Required fields are marked *