धर्मेण राष्ट्रं निर्वक्तुं परिश्रमो मास्तु – प्रणाब् मुखर्जी।

नवदिल्ली- धर्मेण राष्ट्रं निर्वक्तुं परिश्रमः असहिष्णुतायाः कारणं स्यादिति भूतपूर्वः राष्ट्रपतिः प्रणाब् मुखर्जीवर्यः अवदत्। वयं केवलं धर्मनिरपेक्षतायामेव विश्वसिमः। भारतस्य संविधानं राष्ट्रस्य सामाजिक-आर्थिकोन्नमनस्य मुख्या समया इत्यपि प्रणब् वर्यः व्यक्तमकरोत्। राष्ट्रिय स्वयं सेवक सङ्घस्य कार्यक्रमे भागं गृहीत्वा भाषमाण आसीत् राष्ट्रपतिचरः।

धर्मेण प्रादेशिकतया विद्वेषेण च युक्तानि निर्वचनानि राष्ट्रस्याखण्डतां भञ्जयन्ति। सर्वलोकानाम् एकत्वेन दर्शनमेवास्माकं पारम्पर्यम्। धर्मनिरपेक्षता एवास्माकं धर्मः। सहिष्णुता एव भारतस्यात्मा इत्यपि स अबोधयत्। सर्वविधानि आक्रमणानि त्यजनीयानि भारतभूमौ हैन्दवानां माहम्मदानां क्रैस्तवानां च समानः अधिकारः अस्तीत्यपि प्रणाब् मुखर्जीवर्यः असूचयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *