अपघाते पतितानां कृते ४८ होरापर्यन्तं निःशुल्का चिकित्सा।

तिरुवनन्तपुरम् – रथ्यायाम् अपघाते पतित्वा चिकित्सालयं प्रवेशितानां कृते ४८ होरा पर्यन्तं निश्शुल्कां चिकित्सां प्रदातुं केरलसर्वकारः निरणयत्। एतदर्थं ट्रोमा केयर् नामिका परियोजना आविष्करणीया इति मुख्यमन्त्रिणः पिणरायि विजयस्य आध्यक्ष्ये सम्पन्ने उन्नतसमितेः अधिवेशने निर्णयो जातः।

चिकित्सालये प्रविष्टे सति ४८ होरावधि रोगिणः बन्धुभ्यो वा धनस्वीकारं विनैव चिकित्सा प्रदानार्थं निर्देशमेव परिगणयति। ४८ होराभ्यन्तरे क्रियमाणायाः अत्यासन्नचिकित्सायाः व्ययः सर्वकारेण दीयते। एषा धनराशिः अभिरक्षानिगमात् सर्वकारेण स्वीक्रियते च।

One Response to अपघाते पतितानां कृते ४८ होरापर्यन्तं निःशुल्का चिकित्सा।

  1. २ाडकर ः says:

    केन्द्रसर्वकार:५० घण्डानाम् निःशुल्क चिकित्सा पूर्व मेव घोषितमस्तिI एतत् तु केवलम अधरव्यायामः

Leave a Reply to २ाडकर ः Cancel reply

Your email address will not be published. Required fields are marked *