मातृभूमी साहित्यपुरस्कारः प्रोफ. एं.के. सानुवर्याय

कोषिक्कोट् – अस्य वर्षस्य मातृभूमी साहित्यपुरस्कारः प्रोफ. एं.के. सानुमहाशयाय घोषितः। प्रशस्तः साहित्यविमर्शकः, वाग्मी, जीवचरित्रकारश्च भवत्ययम्। कैरलीसाहितेः कृते अस्य समग्रं योगदानं परिगण्यैव पुरस्कारदानम्। लक्षद्वयरूप्यकाणि प्रशस्तिपत्रं एं.वी. देवेन रूपकल्पितं शिल्पं च पुरस्काररूपेण कल्पितानि। विष्णुनारायणन् नम्पूतिरिः, डो. एं लीलावती, सी. राधाकृष्णः इत्येते साहित्यनायकाः एनं पुरस्काराय चितवन्तः इति मातृभूमेः प्रबन्धनिदेशकः  राज्यसभा सदस्यश्च श्रीमान् एं.पी. वीरेन्द्रकुमारः अवदत्।

One Response to मातृभूमी साहित्यपुरस्कारः प्रोफ. एं.के. सानुवर्याय

  1. വായനക്കാരൻ says:

    💐💐💐💐💐💐💐💐💐
    💐💐💐💐💐👍👍👍👍👌

Leave a Reply to വായനക്കാരൻ Cancel reply

Your email address will not be published. Required fields are marked *