सत्यस्यैव जयो ध्रुवम् (भागः ४२३) 27-12-2025
EPISODE – 423
नूतना समस्या –
“सत्यस्यैव जयो ध्रुवम्”
प्रथमस्थानम्
“इतिहासपुराणेषु
विद्यन्ते धार्मिकाः कथाः ।
सारस्तासां तु सर्वासां
सत्यस्यैव जयो ध्रुवम्” ॥
Sridevi
“अभिनन्दनानि”
EPISODE – 423
नूतना समस्या –
“सत्यस्यैव जयो ध्रुवम्”
प्रथमस्थानम्
“इतिहासपुराणेषु
विद्यन्ते धार्मिकाः कथाः ।
सारस्तासां तु सर्वासां
सत्यस्यैव जयो ध्रुवम्” ॥
Sridevi
“अभिनन्दनानि”
2
വിജ്ഞാനേന യദാ ലോകാ –
ദജ്ഞാനമപ വാര്യതേ
തദാ ഭൂമണ്ഡലേ തസ്യ-
സത്യസ്യൈവ ജയോ ധ്രുവം
तृतीयस्थानम्
അന്ധകാരോ വിനഷ്ടഃ സ്യാത്
യാവദർകസ്തു ശോഭതേ
ധർമേഷു രാജമാനേഷു
സത്യസ്യൈവ ജയോ ധ്രുവം
യഥാർത്ഥകഥനം സത്യം
സർവ്വലോകസുഖപ്രദം
സുവിജ്ഞേയം സദാസ്മാഭിഃ
സത്യസ്യൈവ ജയോ ധ്രുവം.
द्वितीयस्थानम्
വക്തവ്യം സതതം സത്യം
സത്യവാക്യം സുപൂജിതം
സത്യം യത്നേന സംരക്ഷേത്
സത്യസ്യൈവ ജയോ ധ്രുവം.
सत्यमेव परं धर्म:
काले कालान्तरेषु च ।
अत एवोच्यते प्राज्ञैः
सत्यस्यैव जयो ध्रुवम् ॥
अनृतं दोषकरं प्रोक्तं
सुनृतं सर्वसम्मतम् ।
अनृतं नाशमाप्नोति
सत्यस्यैव जयो ध्रुवम् ॥
കീർത്യതേ ഹി ഹരിശ്ചന്ദ്രഃ
സത്യവാക്യസ്യ പാലനേ
രാജാ ദശരഥശ്ചൈവം
സത്യസ്യൈവ ജയോ ധ്രുവം.
प्रथमस्थानम्
इतिहासपुराणेषु
विद्यन्ते धार्मिकाः कथाः ।
सारस्तासां तु सर्वासां
सत्यस्यैव जयो ध्रुवम् ॥
ब्रह्मचर्यं तथा स्नानं
सत्यं दानं च भूषणम् ।
तेषु मानवधर्मेषु
सत्यस्यैव जयो ध्रुवम् ॥
न हि सत्यं क्षयं याति
न मिथ्या चिरकालिका ।
क्लेशान् सहति यो धीरः
सत्यस्यैव जयो ध्रुवम् ॥
सत्यमेकं परं श्रेष्ठं
सर्वैरादृतरूपकम् ।
नास्ति पक्षान्तरं तत्र
सत्यस्यैव जयो ध्रुवम् ॥