भारतमुद्रा पुरस्कारः समर्पितः ।

तृश्शूर् – अशोकन् पुरनाट्टुकरायाः स्मरणार्थं समित्या आयोजितः भारतमुद्रा पुरस्कारः चित्रकाराय दामोदरन नम्पिटी वर्याय समर्पितः । तृश्शूर् साहित्य अक्कादिमी सदने वैलोप्पिल्ली सभा मन्दिरे मेय् मासस्य नवमे दिनाङके सायाह्ने आसीत् पुरस्कार समर्पणम् । केरलेषु ख्याति मापन्नः प्रसिद्ध : चित्रकारः तथा ग्रन्थकारश्च भवति दामोदरन नम्पिटी ।
गुरुवायुर् देवस्वम् अध्यक्षः डा वि के विजयः पुरस्कार – समर्पणमकरोत् । १११११ रुप्यकाणि प्रशस्तिफलकञ्च भवति पुरस्कार स्वरूपम् । सभायां पि के राजन् आध्यक्ष्यमावहत् । के वी गणेशः पुरस्कारजेतुः पंरिचायनमकरोत् । अशोकन् पुरनाट्टुकरा वर्येण विवर्तितं ह्यस्तनी वृष्टिः नामकं पुस्तकं रामदासाय प्रददन् श्रीकुमार : प्रकाशनमकरोत् । एन् राजगोपाल : डा. एन् एस् महेष्बाबु षाजु पुत्तूर विनायकः श्रीलेखा ‘ प्रभा वैककत्त् च भाषणमकुर्वन् ।
अध्यापकः ग्रन्थकारः पत्र प्रवर्तकः ‘ समुदायोद्वारकः चासीत् अशोकन् पुरनाट्टुकरा ।तृश्शूर पुरनाट्टुकरायां श्रीरामकृष्णविद्यालये संस्कृताध्यापकः आसीत् अयं महात्मा । संस्कृताध्यापकसङ्घस्य स्थापक नेता चासीत् । संस्कृतग्रन्थानां नैकेषां कर्ता भवति अयं महानुभावः । ऊनत्रिंशत् वर्षाणि संस्कृतस्य प्रचाराय भारतमुद्रा नामिका मासिकी अनेन प्रकाशयन्ती अवर्तत । 2014 मेय् मासस्य नवमे दिने अयं संस्कृतकेसरी ऐहिकं जीवनं हित्वा दिवमगात् ।
Leave a Reply