अद्यतन वार्ताः -30-04-2025
🌲🌲🌲🌲🌲🌲🌲
**क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रिंशत् एप्रिल् २०२५ (पंचविशत्यधिक द्विसहस्रम्) बुधवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।**
🌲🌲🌲🌲🌲🌲🌲
🌲 विलिञ्ञं नाम अन्तर्राष्ट्रीयपत्तनस्य उद्घाटनसमारम्भाय प्रधानमन्त्री नरेन्द्रमोदी आगमिष्यतीति सुनिश्चितम्।
🌲मलिनजलद्वारा भोजनद्रव्यैश्च विसूचिकायाः प्रसरणस्य सम्भावनया सावधानता आवश्यकीति आरोग्यमन्त्रिणी वीणा जॉर्ज इत्यनेन सूचितम्।
🌲केरल-कर्णाटकराज्ययोः सीमायाम् बन्धिपुरं नाम स्थले रात्रौ यात्रानिषेधसंबन्धे कर्णाटका सभापतिना यु.डी. खादर इत्यनेन स्थितिः स्पष्टीकृता।
🌲पहलगाम् प्रदेशे आतंकवादिनां आक्रमणस्य पृष्ठभूमौ, जम्मूकाश्मीरप्रदेशे ८७ पर्यटनकेन्द्रेषु ४८ केन्द्राः तात्कालिकतया बन्दानि कृतानि।
🌲कण्णूर-अन्तरराष्ट्रीय विमानपत्तनात् दमाम् गन्तव्ये विमानयात्रायाः मूल्यं न्यूनीकृतम् इति एअर् इण्डिया एक्सप्रेस् इत्यनेन विज्ञापितम्।
🌲दीर्घयात्रायै केएसआरटीसी-यानानां वातानुकूलनव्यवस्था नास्तीत्यस्य समस्यायाः समाधानाय केएसआरटीसी संस्था प्रस्तुतिः कृतम्
🌲भारतदेशेन पाकिस्तानस्य विमानानां नौकानां च अनुमतिः निषेधनीयत्वे विचारः क्रियते।
🌲कोटिसंख्याः डॉलर्-मूल्ययुक्तं अमेरिका युद्धविमानं रक्तसागरे (Red sea) पतितम्।
🌲🌲🌲🌲🌲🌲🌲
धन्यवादः
शुभदिनम्
Leave a Reply