अद्यतनवार्ताः 29-04-2025

🪔🪔🪔🪔🪔
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य नवविंशतिः एप्रिल् २०२५ (पंचविशत्यधिक द्विसहस्रम्) मङ्गलवासरः । वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
वार्ताम् वाचयति-ललितांबिका ए एन, पालक्काड्।
🪔🪔🪔🪔🪔🪔
🪔उचिते मूल्ये कृषकान् आकर्षयन् अनानसफलस्य मूल्यं ग्रीष्मवर्षया सह अर्धेन अपचक्रत।
🪔 दीर्घविरामानन्तरं आगामिमासे रेशन् आपणेभ्यः मृत्तिकातैलस्य
प्राप्तिः भविष्यतीति सूचना अस्ति।
🪔 नवमार्पापां चयितुं कत्तोलिका कर्दिनालानां सभा मेय् ७ दिने आरभ्यते इति वतिकानस्य सूचना।
🪔 करं विना सेवां कुर्वत्सु अन्यराज्यपर्यटनयानेषु मोटर्-यान-विभागेन दण्डः आरोपितः।
🪔 विद्युत् वितरणे व्यवधानं युरोपदेशेषु जातम्। स्पेन्, फ्रांस्, पोर्तुगाल् इत्यादिषु देशेषु विद्युत् वितरणं अवरुद्धम्।
🪔२०२५ आर्थिकवर्षे भारतरिजर्व्बैंक् ५७.५ टनं सुवर्णं अधिगच्छत्।
🪔 पहलगाम् आतंकाक्रमणस्य पार्श्वभूमौ कश्मीरप्रदेशे महत्वपूर्णकेन्द्राणां सुरक्षा वर्धिता।
🪔 उच्चमाध्यमिके, अपि च नव्य-व्यवसायिक-उच्चमाध्यमिके शिक्षकेभ्यः नियुक्त्यर्थं राज्यपात्रतापरीक्षा एप्रिल् २८ दिनाङ्कात् आरभ्य आवेदनं कर्तुं शक्यते।
🪔 आई पी एल् स्पर्धायाम् द्वितीयखेलने डेल्हीकेपिटल्स् दलं षड्विकेट्स् अन्तर्येन रॉयल् चैलेन्जर्स् बेंगळूरु नामकदलेन पराजितम्।
धन्यवादः
शुभदिनम्
Leave a Reply