पुष्पं हृदयहारकम् (भागः ३७६) 01-02-2025
EPISODE – 376
नूतना समस्या –
“पुष्पं हृदयहारकम्”
प्रथमस्थानम्
“पद्मसौगन्धसम्पुष्टं
वर्णवस्त्रैरलङ्कृतम् ।
नारीस्वरूपमापन्नं
पुष्पं हृदयहारकम् “॥
Sridevi
“अभिनन्दनानि”
EPISODE – 376
नूतना समस्या –
“पुष्पं हृदयहारकम्”
प्रथमस्थानम्
“पद्मसौगन्धसम्पुष्टं
वर्णवस्त्रैरलङ्कृतम् ।
नारीस्वरूपमापन्नं
पुष्पं हृदयहारकम् “॥
Sridevi
“अभिनन्दनानि”
कण्टकावृतदेहोपि
पाटलं सुमनोहरम् ।
मधुना वर्णजालैस्तत्
पुष्पं हृदयहारकम् ॥
तृतीयस्थानम्
സമായാതേ വസന്തർതൗ
സർവത്ര കുസുമാഗമഃ
സദ്യോ ദദാതി സന്തോഷം
പുഷ്പം ഹൃദയഹാരകം.
പതിതം കുസുമം ദൃഷ്ട്വാ
വിലലാപ മഹാകവി:
അത്യാകർഷകമേതദ്ധി
പുഷ്പം ഹൃദയഹാരകം.
1
ജൻമനാ ലബ്ധനൈർമല്യൈർ-
ദളൈർവികസിതം ഭൃശം
ചാരുഗന്ധമധ്വാ പൂർണം
പുഷ്പം ഹൃദയഹാരകം
द्वितीयस्थानम्
आकारेण च वर्णेन
लोकानां रञ्जकं सदा ।
नारीजनैश्च संसेव्यं
पुष्पं हृदयहारकम् ॥
प्रथमस्थानम्
पद्मसौगन्धसम्पुष्टं
वर्णवस्त्रैरलङ्कृतम् ।
नारीस्वरूपमापन्नं
पुष्पं हृदयहारकम् ॥
शरिरे वर्तते किञ्चित्
चित्तपुष्पं तु चञ्चलम् ।
सर्वेषु स्नेहसम्पन्नं
पुष्पं हृदयहारकम् ॥