नरजन्म महत्तरम् (भागः ३६९) 14-12-2024
EPISODE – 369
नूतना समस्या –
“नरजन्म महत्तरम्”
प्रथमस्थानम्
“नरत्वं दुर्लभं लोके
पूर्व पुण्यसमार्जितम् ।
सर्वेषु प्राणिवर्गेषु
नरजन्म महत्तमम्” ॥
Vijayan V Pattambi
“अभिनन्दनानि”
EPISODE – 369
नूतना समस्या –
“नरजन्म महत्तरम्”
प्रथमस्थानम्
“नरत्वं दुर्लभं लोके
पूर्व पुण्यसमार्जितम् ।
सर्वेषु प्राणिवर्गेषु
नरजन्म महत्तमम्” ॥
Vijayan V Pattambi
“अभिनन्दनानि”
जातेष्वनेकजन्मसु
सुकृतजन्म दुर्लभम्।
तेषु सुकृतजन्मसु
नरजन्म महत्तरम्।।
विवेकस्तु मनुष्याणां
महनीयो गुणः स्मृतः ।
तेन पुनीकृतं तत्तु
नरजन्म महत्तमम् ॥
विद्यालाभश्च यस्मात्तु
यस्मान्तु गुणसञ्चयः ।
जीविवर्गेषु तस्माद्धि
नरजन्म महत्तमम् ॥
वसतिर्भक्षणञ्चैव
सर्वप्राणिहितं भुवि ।
विद्यालाभसमेतं तत्
नरजन्म महत्तमम् ॥
പശവ: പക്ഷിണസ്സന്തി
ലോകേ ഹി ബഹവ : ഖലു
കഷ്ടം! ഹി ജീവിതം തേഷാം
നരജന്മ മഹത്തരം.
द्वितीयस्थानम्
ധർമബോധോ വിവേകശ്ച
ധരായാം ദൃശ്യതേ നരി
അഹർനിശമിദം ധ്യേയം
നരജന്മ മഹത്തരം.
तृतीयस्थानम्
സ്വാർത്ഥന്തു പൂർണതസ്ത്യക്ത്വാ
കാലം നയന്തി കേചന
പശ്യ പ്രാപഞ്ചികം സത്യം
നരജന്മ മഹത്തരം.
प्रथमस्थानम्
नरत्वं दुर्लभं लोके
पूर्वपुण्यसमार्जितम् ।
सर्वेषु प्राणिवर्गेषु
नरजन्म महत्तमम् ॥