मानो हि महतां धनम् (भागः ३६६) 23-11-2024
EPISODE – 366
नूतना समस्या –
“मानो हि महतां धनम्”
प्रथमस्थानम्
“മാനഹീനാ നരാഃ ഹന്ത!
ഗമിഷ്യന്ത്യുപഹാസ്യതാം
മാനേനൈവോന്നതിർനൂനം
മാനോ ഹി മഹതാം ധനം”
Atheetha
“अभिनन्दनानि”
EPISODE – 366
नूतना समस्या –
“मानो हि महतां धनम्”
प्रथमस्थानम्
“മാനഹീനാ നരാഃ ഹന്ത!
ഗമിഷ്യന്ത്യുപഹാസ്യതാം
മാനേനൈവോന്നതിർനൂനം
മാനോ ഹി മഹതാം ധനം”
Atheetha
“अभिनन्दनानि”
प्रथमस्थानम्
മാനഹീനാ നരാഃ ഹന്ത!
ഗമിഷ്യന്ത്യുപഹാസ്യതാം
മാനേനൈവോന്നതിർനൂനം
മാനോ ഹി മഹതാം ധനം.
കുലം രൂപം തഥാ ശീലം
ഗരീയോ യദ്യദുത്തമം
മഹത്തമം പരം പശ്യ
മാനോ ഹി മഹതാം ധനം.
ആശ്രയന്തേ പരാന്നൈവ
മാനിനോ ന ഹി കർഹിചിത്
ആശ്രിയന്തേ ച സദ്ഭിസ്തേ
മാനോ ഹി മഹതാം ധനം.
द्वितीयस्थानम्
दोषारोपे भवेद्दुःखं
मानवचित्तशोषकम् ।
दोषान् विनाशयेच्छीघ्रं
मानो हि महतां धनम् ॥
द्वितीयस्थानम्
नारीणां तु धनं रूपं
पुरुषाणां धनं बलम् ।
रोदनं चैव बालानां
मानो हि महतां धनम् ॥
विवेकश्च तथा विद्या
महतां लक्षणावुभौ ।
सर्वैस्तु वन्द्यमानानां
मानो हि महतां धनम् ॥
तृतीयस्थानम्
नैव देशो न वा वंशः
कुलं नैव धनागमः ।
कामिनी काञ्चनं नैव
मानो हि महतां धनम् ॥
विद्या धैर्यं धनं धर्मम्,
गुणेष्वनुरक्तानां हि।
निर्मलं विचारैः स्थितम्,
मानो हि महतां धनम्।।
गुणेष्वनुरक्तानां हि,
विद्या धैर्यं धनं धर्मम्।
निर्मलं विचारैः स्थितम्,
मानो हि महतां धनम्।।
कदाचिन्न तु गन्तव्यं
मदिरालयसन्निधिम् ।
मदिरया नश्यते मानो
मानो हि महतां धनम् ॥