नूतना समस्या (भागः ३५०) 03-08-2024
EPISODE – 350
नूतना समस्या –
“गङ्गावली तु भीतिदा”
प्रमस्थानम्
“सह्याद्रिशिखराज्जाता
बहुदीर्घा महानदी ।
सङ्गमैश्च प्रवाहानां
गङ्गावली तु भीतिदा” ॥
Ramachandran
“अभिनन्दनानि”
EPISODE – 350
नूतना समस्या –
“गङ्गावली तु भीतिदा”
प्रमस्थानम्
“सह्याद्रिशिखराज्जाता
बहुदीर्घा महानदी ।
सङ्गमैश्च प्रवाहानां
गङ्गावली तु भीतिदा” ॥
Ramachandran
“अभिनन्दनानि”
അതിവർഷണഹേതുത്വാത്
ഷിരൂരിർനാശതാം ഗതാ
ഉത്തിഷ്ഠത പ്രബുദ്ധ്യദ്ധ്വം
ഗംഗാവലീ തു ഭീതിദാ.
ബഹൂനി നാശനഷ്ടാനി
സർവത്രാസ്തി മൃദാം ചയ:
രക്ഷാദൗത്യം കഥം സാധ്യം ?
ഗംഗാവലീ തു ഭീതിദാ.
ദുസ്സഹാനി ദുരന്താണി
ദേശേ ഷിരൂരി നാമകേ
ദൃശ്യന്തേ ഹന്ത! കിം ബ്രൂമോ?
ഗംഗാവലീ തു ഭീതിദാ.
तृतीयस्थानम्
ഘോരാരവേണ തോയസ്യ
ചടുലാഹവഭേരിണാ
ജാതഞ്ച താണ്ഡവം രൂപം
ഗംഗാവലീ തു ഭീതിദാ.
कदाचित् जलबाहुल्यात्
कदाचित् मकरादिभिः ।
पिङ्गलवर्णगा चेयं
गङ्गावली तु भीतिदा ॥
प्रमस्थानम्
सह्याद्रिशिखराज्जाता
बहुदीर्घा महानदी ।
सङ्गमैश्च प्रवाहानां
गङ्गावली तु भीतिदा ॥
द्वितीयस्थानम्
बहुदीर्घा महाघोरा
मदान्धा च मनोहरा ।
मङ्गलापि महागर्तैः
गङ्गावली तु भीतिदा ॥
वर्षाकाले तु संप्राप्ते
नद्यः जलपूरिताः ।
प्रचण्डेन प्रवाहेन
गङ्गावली तु भीतिदा ॥