भारत-चीना सीम्नि सङ्घर्षः, त्रयाणां सैनिकानां वीरमृत्युः।

नवदिल्ली- भारत-चीना सीमायां संजाते सङ्घर्षे त्रयाणां भारतीयसैनिकानां वीरमृत्युः अभवदिति आवेदनम्। चतुर्णां चीीनासैनिकानां मरणमपि आवेदितम्। उभयोरपि सेनयोः पञ्चसैनिकाः मृताः इत्यपि सूचना अस्ति। परं एषा सूचना न स्थिरीकृता।

     अस्मिन्नन्तरे एतां घटनामधिकृत्य किमपि न जानाति इति चीनीविदेशमन्त्रालयः असूचयत्। उभयोः राष्ट्रयोः मिथः सङ्घर्षः मासैः अनुवर्तमानः आसीत्। समस्यापरिहारार्थं सैनिकाधिकारिभिः सोमवासरेपि मिथः चर्चा कृता आसीत्। परन्तु चर्चा विफला जाता। अस्मिन्न्न्तरे एव सोमवासरे रात्रौ सङ्घर्षः समजायत। गल्वानस्थे14तमे शिबिरे होट्स्प्रिङस्थे 15, 16 शिबिरयोः एव सङ्घर्षः ्र् अनुवर्तते।

     1975 वर्षस्यानन्तरं  पुनः प्रथमवारमेव भारत-चीना सङ्घर्षे जैनिकाना जीवहानिः सञ्जाता। स्थितिगतीनामवलोकनार्थं सुरक्षामन्त्री राजनाथसिंहः तथा विदेशमन्त्री  एस् जय् शङ्कर् च चर्चामकरुताम्। चर्चायां संयुक्तसेनामेधावी तथा त्रयाणां सेनानां नायकाश्च भागम् अभजन्।

Leave a Reply

Your email address will not be published. Required fields are marked *