राष्ट्रे विद्यालयानां कलालयानां च अपावरणम् आगस्त् १५ दिनाङ्कानन्तरं भवेदिति मन्त्री रमेॆश् पोख्रियाल् वर्यः।

नवदिल्ली- कोरोणा विषाणोः भूमिकायां सम्पूर्णपिधानस्यायोजनेन पिहितानां विद्यालयानां कलालयानां च अपावरणम् तत्र अध्यापनं च अस्मिन् वर्षे आगस्त् १५ दिनाङ्कादूर्ध्वं भवेत् इति केन्द्रीय-मानवसंसाधनमन्त्री रमेश् पोख्रियाल् वर्यः असूचयत्। जूण् तृतीये दिनाङ्के बी.बी.सी. नालिकायाः कृते दत्ते साक्षात्कारे एव मन्त्रिणः एषा सूचना अस्ति।

सम्पूर्णपिधानस्य भागत्वेन मार्च् १६ दिनाङ्के एव राष्ट्रे विद्यालयाः कलालयाश्च पिहिताः अभवन्। ३३ कोटिपरिमिताः छात्राः एव विद्यालयानाम् अपावरणं प्रतीक्ष्य तिष्ठन्ति।

आगस्त १५ दिनाङ्कात् प्रागेव सी.बी.एस्.ई. ऐ.सी.एस्.ई. परीक्षाणां चालनं भविता। जूलै प्रथमतः पञ्चदशदिनाङ्कं यावत् सी.बी.एस्.इ. तथा जूलै प्रथमतः द्वादशपर्यन्तं ऐ.सी.एस्.ई. परीक्षा च आयोजयिॆष्यति। परीक्षाफलप्रख्यापनमपि विद्यालयप्रारम्भात् पूर्वमेव भवेत्।

One Response to राष्ट्रे विद्यालयानां कलालयानां च अपावरणम् आगस्त् १५ दिनाङ्कानन्तरं भवेदिति मन्त्री रमेॆश् पोख्रियाल् वर्यः।

  1. अनुज कुमार says:

    अभिनंदन

Leave a Reply to अनुज कुमार Cancel reply

Your email address will not be published. Required fields are marked *