८१००० शिक्षकाणां सद्यस्ककक्ष्याद्वारा सूचनातान्त्रिरविद्याप्रशिक्षणम्।

तिरुवनन्तपुरम्- प्राथमिक-माध्यमिकस्तरयोः परीक्षामपहाय छात्रेभ्यो विरामः प्रदत्तः इत्यतः कैट् संस्थायाः नेतृत्वे शिक्षकाणां कृते सद्यस्कसेवया सूचनातान्त्रिकविद्याप्रशिक्षणं विधातुं सर्वकारस्य उद्यमः। ११२७४ विद्यालयान् केन्द्रीकृत्य ८१००० अध्यापकानां प्रशिक्षणम् एवं विधास्यति।

साधारणतया एकस्मिन् केन्द्रे २५ अध्यापकाः इति क्रमेण सहस्राधिकेषु केन्द्रेषु संपत्स्यमानं प्रशिक्षणमेव अस्मिन् पृथक् साहचर्ये विद्यालयस्थम् अतितान्त्रिक व्यवस्थामुपयुज्य प्रवर्तते। पञ्चदिवसीयं प्रशिक्षणमेव सद्यस्कसेवाद्वारा एवमायोज्यते। अस्य प्रथमसत्रम् अस्मिन् मासे १८तः २७ पर्यन्तं दिनाङ्केषु भविता।

Leave a Reply

Your email address will not be published. Required fields are marked *