मधुरस्मितम्- बालकानां कृते विश्वे प्रथमं संस्कृतचलनचित्रम्।

एरणाकुलम्- विश्वे प्रथमतया वालकानां कृते निर्मीयमाणं संस्कृतचलनचित्रं भवति मधुरस्मितम्। अस्य पूजा तथा पिञ्जोद्घाटमकर्म सुसम्पन्नम्। संस्कृतं निर्माणसंघस्य  केतने प्रस्तूयमानस्य अस्य चित्रस्य निदेशकः सुरेष् गायत्री वर्यः भवति। निसार् वर्यः निदेशकत्वनिरीक्षणं विदधाति। सानिमोल् के.एस्. सहनिदेशिका भवति।

अस्य वालचलचित्रस्य कथां बिजिला किषोर् कुमार् विदधाति तथा अरुण् नेल्लनाट् पटकथां च विदधाति। गीतप्राधान्ययुक्तस्य अस्य चित्रस्य कृते सुरेष् विट्टियरम्, बिजिला किषोर् कुमार्, डो. कुमार् प्रभृतयः गानानि रचयामासुः। एषां गानानां संगीतम् राजेषु नारायणः व्यदधात्। रुग्मा, अय्फुना, नुजुम्, अर्या एं नायर् इत्येताः गीतानि आलपन्।

केरलीयाः संस्कृताध्यापकाः छात्राश्च अस्य चित्रस्य नेपथ्ये प्रवर्तन्ते। सार्वजनीनविद्यालयानां छात्राणां च उत्कृष्टतायाः कथा एवेदं चलनचित्रं अस्मान् वदति। छात्राणां कृते एकं आध्ययनचित्रमपि भवति मधुरस्मितम्। अस्य लाभं केरलस्य प्रलयानन्तरपुनारचनायै मुख्यमन्त्रिणः दुरिताश्वासनिधौ निक्षेप्स्यतीति निदेशकः अवदत्।

चलनचित्रमिदं शिसुदिने प्रदर्शनाय सज्जं भविष्यति।

One Response to मधुरस्मितम्- बालकानां कृते विश्वे प्रथमं संस्कृतचलनचित्रम्।

  1. Suresh Gayathri says:

    നവവാണിക്ക് അഭിനന്ദനങ്ങൾ…

Leave a Reply to Suresh Gayathri Cancel reply

Your email address will not be published. Required fields are marked *