संस्कृतदिनसमारोहस्य भागत्वेन अध्यापकानां कृते साहित्यरचनामत्सरः।

तिरुवनन्तपुरम्- केरल-सार्वजनीनशिक्षाविभागः प्रतिवर्षं संस्कृतसप्ताहमभिलक्ष्य अध्यापकानां कृते संस्कृतसाहित्यरचनाप्रतियोगिताः आयोजयति। कथा, कविता उपन्यासः, समस्यापूरणम् इत्येतेषां रचनामत्सरः  एतावत्पर्यन्तं समायोजितः आसीत्। अस्मिन् वर्षे एतैः मत्सरैः सह पटकथारचनामत्सरः अपि समायोजितो वर्तते। गतवर्षादारभ्य ह्रस्वचलच्चित्रमत्सरः अपि आयोजितः। एतत् अध्यापकैः छात्रैः वा निर्मितं ह्रस्वचलच्चित्रं भवितुमर्हति। अस्मिन् वर्षे एतेषां विषयः इदानीमुद्घोषितः।

विषयाः एवम्-

उपन्यासः     –  नवकेरलम् नवजीवनम्।

कथा           –  इच्छाशक्तिः।

कविता        –  जालकदृश्यम्।

समस्या       –  जनो जलं पातुमहो प्रगच्छति।

    पटकथारचना, ह्रस्वचलच्चित्रम् इत्येतयोः विषयनिबन्धना नास्ति। स्वतन्त्राविष्काराय अवकाशः अस्ति। ह्रस्वचलच्चित्रस्य दैर्घ्यं दशनिमेषतः पञ्चदशनिमेषपर्यन्तं भवितुमर्हति।

     एताः प्रतियोगिताः विद्याभ्यासमण्डलानुसारं समायोज्य प्रथम-द्वितीय-तृतीयस्थानं प्राप्ताः रचनाः एव राज्यस्तरीयप्रतियोगितार्थं प्रेषणीयाः। एताः रचनाः शिक्षामण्डलाधिकारिणः साक्ष्यपत्रेणसाकं पत्रालयद्वारा प्रेषणीयाः। सङ्केतः एवम्-

 डो. टी.डी. सुनीतीदेवी,

विशिष्टाधिकारिणी (संस्कृतम्),

सार्वजनीन-शिक्षानिदेशकस्य कार्यालयम्,

जगती, तिरुवनन्तपुरम्।

2019 आगस्त् मासस्य दशमदिनाङ्कः एव रचनास्वीकारस्य अन्तिमतिथिः। एतदनन्तरं प्राप्यमानाः रचनाः प्रतियोगितायै न परिगण्यन्ते। एतत् सार्वजनीनशिक्षाविभागस्य पी.एल्.2/18303/2019/डी.जी.इ. परिपत्रानुसारं विज्ञापितं भवति।

 

 

 

 

One Response to संस्कृतदिनसमारोहस्य भागत्वेन अध्यापकानां कृते साहित्यरचनामत्सरः।

  1. Kishor Krishna Shevde says:

    मान्या:,
    सादरं नमस्ते|
    जन्म कारिणी भारतमिति मलयालम देशभक्तिगीतस्य पदानुपदमर्थं कृपया ददात्विति सविनयं प्रार्थये|

Leave a Reply to Kishor Krishna Shevde Cancel reply

Your email address will not be published. Required fields are marked *