बालकविताः – मुत्तलपुरम् मोहन्दास्।

१. अमृतमेव जलम् 
मृदुलमथ च निर्मलं जलं सादापि शीतलं 
भवति जीवनञ्च सर्वप्राणिनां महीतले ।
अक्षयं जलं सादापि पक्षपातरहितमस्ति
लक्ष्यमस्य समतलं सदा तथा च  तिष्ठाति ।
सलिलममृतसन्निभं भवति सर्वतोमुखं  
सुखदमपि च पुष्करं  सकलजीवरक्षकम् ।
विपुलवैभवान्वितं अतुलगुणगणावहं
सततमस्य रक्षणं करोतु जीवरक्षणम् ।।
२. सूर्योऽहम्
प्रात:काले पूर्वस्यां दिशि
उच्चस्थोऽहं मध्याह्ने ।
पुनश्च सायं पश्चिमभागे 
ततश्च प्रात: पुनरागमनम्।।
स्पृशञ्च नित्यं करैस्सहस्रै:
प्रबोधयेऽहं सुप्तानखिलान्।
नियुज्य तान् निजकर्मणि पश्चा-
त्तनोति मामकमूर्जमनन्तम्।।

मित्रोऽहं सर्वेषां मित्रं 
शत्रुरहं सततं तिमिराणाम् ।
चक्षुरहं जगतामपि नित्यं 
रक्षक एवाहं सकलानाम् ।।

Leave a Reply

Your email address will not be published. Required fields are marked *