विजयते तवेप्सितम् – श्री मुत्तलपुरं मोहनदासः।

जगदधीश! त्वां स्तुवन्ति सकलमानवास्सदा

निगदितो मनीषिभिश्च त्वं परात्मदैवतम्।

विजयते तवेप्सितं सदापि जगति निश्चितं

सदयमातनोतु नित्यमङ्गलं दयानिधे!

दिनकरं दिने दिने दिनात्यये निशाकरं

पुनरसंख्यतारका विलोकयामहे दिवि।

अहो! विचित्रमद्भुतं त्वदीयसर्गवैभवं

कथं नु पारयेम तस्य संस्तवाय हे प्रभो!

सागरे समुद्धते समुन्नते च पर्वते

द्योतते विभो! भवद्गभीरता नमोस्तु ते।

त्वां स्तुवन्ति कलकलं खगाश्च निम्नगाश्च भो!

त्वां वदन्ति सर्वशक्तमिति च तत्त्ववेदिनः।

जगदहो कियन्मनोज्ञमथ च मर्त्यजीवितं

नियतमत्र जन्म लब्धमिति च पुण्यहेतुकम्।

सफलमस्तु त्वत्कृपावरेण भुवनजीवनं

सकललोकनाथ! दुरितमोचनं विदेहि भो!

Leave a Reply

Your email address will not be published. Required fields are marked *