तस्मै श्री गुरवे नमः।

तस्मै श्री गुरवे नमः  विजयन् वि. पट्टाम्बि।

गुरुः ब्रह्मेति सङ्कल्पो भारतेषु प्रवर्धते

पुरुषस्यास्य संसृष्टौ गुरुरेव हि शक्तिमान्।

अध्येता ध्यानशीलश्च परिष्कर्ता तथा पुनः

कथाप्राणसमत्वाच्च सो∫ध्यापक इहोच्यते।

हितानुभवदाता स छात्रेभ्यो मार्गदर्शकः

दोषाणां परिहर्ता च समदर्शी सत्यवागपि।

मनसा कर्मणा वाचा  छात्राणामुन्नतिं बहु

सततं कांक्षते योगी निस्पृहः सत्यपालकः।

आचार्यो भावनायुक्तः कलाकारश्च सात्विकः

आशयग्रहणे दक्षो वाग्मी च क्षमायुतः।

हारकः छात्रचित्तानां वर्धको मूल्यसंस्कृतेः

चोदकः साधुवृत्तीनां नाशको दुष्टकर्मणः।

पाठ्यांशान् सम्यगासूत्र्य यथाकालं सविस्तरं

छात्रस्तरानुसारञ्च पाठ्यते तेन धीमता।

पठनानुभवांस्तूर्णं मधुरैरनुभवैः समं

समायोज्य यथाकालं सन्ददाति स पण्डितः।

कालिकासु च वृत्तिषु यथाशक्ति यथोचितं

छात्रशक्तिं समायोज्य लोकानुद्धरते गुरुः।

छात्राणां प्रियमित्राणां चित्तपद्मेषु संश्रयन्

कल्पान्तं जीवति प्राज्ञः पितृकल्पो नराग्रणीः।

किं कर्म किमकर्मेति साधुबोधप्रदायिने

उपदेशकवर्याय तस्मै श्री गुरवे नमः।

2 Responses to तस्मै श्री गुरवे नमः।

  1. लिजिना says:

    पट्टाम्पी नामकॆ दॆशॆ
    उषित्वा नित्यमॆवंविधौ।
    संस्कृतपोषणनिरतो
    वि़जयो नाम गुरवॆ नमः।।

Leave a Reply

Your email address will not be published. Required fields are marked *