एवं रोदिति केरलम् – 25-08-2018

 

नूतना समस्या –

“एवं रोदिति केरलम्”

ഒന്നാംസ്ഥാനം

ദുര്‍ജ്ജനാഃ മത്സരഗ്രസ്താഃ
ജന്മലബ്ധാഃ മമോദരേ
പീഡാം കുുര്‍വന്തി മേ നിത്യ-
മേവം രോദിതി കേരളം

ഹരിപ്രസാദ് വി.ടി. കടമ്പൂര്

“അഭിനന്ദനങ്ങള്‍”

15 Responses to एवं रोदिति केरलम् – 25-08-2018

  1. वि. माधवन् पिल्ला। says:

    अकृत्यमखिलं कृत्वा
    सन्तुष्यन्ति नराधमाः।
    निषीदन्ति च तत्वज्ञाः
    एवं रोदिति केरलम्।।

  2. വി.ടി. ഹരിപ്രസാദ് കടമ്പൂര് says:

    ഒന്നാംസ്ഥാനം

    ദുര്‍ജ്ജനാഃ മത്സരഗ്രസ്താഃ
    ജന്മലബ്ധാഃ മമോദരേ
    പീഡാം കുുര്‍വന്തി മേ നിത്യ-
    മേവം രോദിതി കേരളം

  3. वि माधवन् पिल्ला says:

    ऋतुषट्कं द्विधा व्यस्त-
    माग्नेयं वारुणं तथा।
    प्रथमेfग्निर्जलञ्चान्ये
    एवं रोदिति केरलम्।।

  4. अमृता सि.जे says:

    श्रावणमागतं पश्य
    नष्टं गेहं धनं तथा।
    जलान्मां रक्ष रक्षेति
    एवं रोदिति केरलम्।।

  5. राजेष् says:

    आधिदैविकदुःखान्मे
    रक्ष रक्षेति निस्त्रपम्।
    हस्तौ प्रसार्य सोत्कण्ठ-
    मेवं रोदिति केरलम्।।

  6. विजयन् वि पट्टाम्बि। says:

    लोकशास्त्राणि शक्तानि
    साह्यं कुरुत साम्प्रतम्।
    जलक्लिन्नं भयाक्रान्त-
    मेवं रोदिति केरलम्

  7. नीलकण्ठः अराङाश्शेरी। says:

    नष्टं मे वसतिर्धान्यं
    जनजन्तुलताः तथा।
    भवेद्वा मामिका मुक्तिः
    एवं रोदिति केरलम्।।

  8. Adidev C S says:

    മൂന്നാംസ്ഥാനം

    जलयानानि सञ्चित्य
    शीघ्रमानय धीवर!
    परिपालय मत्पुत्र!
    एवं रोदिति केरलम्।।

  9. Maya PR says:

    प्रकृतिम् चूषयति चेत्
    जलोपप्लवं भवेयुः ।
    प्राणान् रक्षिष्येतीति
    एवं रोदिति केरलम् ।।

  10. Ramanath varier says:

    जलबिन्दुनिपातेन
    सर्वत्रास्ति जलोप्लवः ।
    अलमलं वृष्टिरिति
    एवं रोदिति केरलम् ।।

  11. Prof. Madhavan Pillai says:

    संपीडा बहुधा लोके
    पीडनाःबहुधा तथा ।
    पीडापीडनसंदग्ध –
    मेवं रोदिति केरळम् ।।

  12. Prof. Madhavan Pillai says:

    निदाघेन ज्वलत्येव –
    मेवमेव जलप्लवात् ।
    द्रव्यैर्द्वितीयतृतीयै –
    रेवं रोदिति केरळम्॥

  13. Prof. Madhavan Pillai says:

    बालिका वनिताश्चैव
    शिशवो निरुपद्रवाः ।
    पीड्यन्ते निर्दयं देशे
    एवं रोदिति के२ळम्” ॥

  14. Prof. Madhavan Pillai says:

    രണ്ടാംസ്ഥാനം

    दुर्भिक्षान्मरणं देशे
    गोत्रजेष्वादिवासिषु ।
    सम्पदामव्यवस्थाना –
    -देवं रोदिति केरळम्” ॥

  15. रञ्जित्त् says:

    वर्षाधिक्यप्रवाहेन
    भूछेदोअतिमारुतैः
    सर्वं च नष्टमित्युक्त्वा
    एवं रोदिति केरलम्

Leave a Reply

Your email address will not be published. Required fields are marked *