अग्नि-५ परीक्षणं विजयमवाप।

बालेसोर्(ओडिषा)- एतद्देशनिर्मितम् आणववाहशेषीयुक्तं अग्नि-५ प्रक्षेपास्त्रं भारतेन अद्य सविजयं परीक्षितम्। ओडिषातीरे अब्दुल् कलां द्वीपे एव परीक्षणमभवत्। स्थलात् स्थलं प्रति प्रेष्यमाणस्य प्रक्षेपास्त्रस्य ५००० कि. मी. दूरपरिधिरस्ति। अस्य षष्टं परीक्षणं भवतीदम्। प्रथमं परीक्षणं २०१२ एप्रिल् १९ दिनाङ्के अभवत्।

      प्रक्षेपास्त्रमिदम् एकटणपरिमितं भारयुक्तम् आणवास्त्रं वोढुं प्रभवति। १७ मीट्टर् दैर्घ्यं ५० टण् भारं चास्ति अस्य प्रक्षेपास्त्रस्य। एष्या भूखण्डं सम्पूर्णम् अस्य प्रहारपरिधौ आयाति। यूरोप् आफ्रिक्का भूखण्डे भागिकत्वेन चायातः।चैना जपान् दक्षिणकोरिया उत्तरकोरिया इन्तोनेष्या ताय्लाण्ट् मलेष्या पाकिस्तान् अफ्गानिस्तान् इरान् इराख् ईजिप्त् सिरिया सुडान् लिभिया रष्या जर्मनी युक्रैन् ग्रीस् इट्टली इत्यादीनि राष्ट्राणि प्रहारपरिधावानेतुं प्रभवति इदं प्रक्षेपास्त्रम्।

Leave a Reply

Your email address will not be published. Required fields are marked *