भूतपूर्वः केन्द्रमन्त्री प्रियरञ्जन् दास् मुन्षी दिवंगतः।

नवदिल्ली – काण्ग्रेस् दलस्य नेता तथा भूतपूर्वः केन्द्रीय सूचनाप्रसारणमन्त्री च प्रियरञ्जनदास् मुन्षी वर्यः निर्यातः अभवत्। स ७२ वयस्कः आसीत्। आमयपीडया वर्षाणि यावत् चिकित्सायामासीत्। अद्य मध्यान्हे १२.१० वादने नवदिल्याम् अप्पोलो आतुरालये आसीत् अन्त्यम्।

      पक्षाघातात् परं २००८ तः अबोधावस्थायां स्थितः सः जीवरक्षोपकरणानां साहाय्येन जीवन्नासीत्। मस्तिष्कं प्रति रुधिरप्रवाहस्थगनेन नाडीदौर्बल्यं सञ्जातम्। तद्वारा आशयविनिमयशेषी विनष्टा च अभवत्।

       १९९९ -२००९ काले स पश्चिमवंगस्य रायिगञ्ज् मण्डलात्  लोकसभासदस्यः आसीत्। २००५ – २००८ काले मन्मोहन् सिंह् मन्त्रिमण्डले अयं संसदीयकार्यस्य तथा सूचना प्रसारणकार्यस्य च मन्त्रित्वेन असेवत।

     २० वर्षाणि यावत् आल् इन्ड्या फूट्बोल् फेडरेषन् आख्यस्य पादकन्दुकसङ्घस्य अध्यक्षः आसीत्। विश्वचषक पादकन्दुकस्पर्धायां स्पर्धाकार्यदर्शीरूपेण कर्म कृतः प्रथमः भारतीयश्चासीदयम्।

Leave a Reply

Your email address will not be published. Required fields are marked *