वृक्षमेकं हि रोपयेत् (भागः ३४२) 08-06-2024

EPISODE – 342

नूतना समस्या –

“वृक्षमेकं हि रोपयेत्”

प्रथमस्थानम्

“वायुं भोज्यं च छायाञ्च
यो ददन्नस्ति सर्वदा ।
लोकोपकारकं शीघ्रं
वृक्षमेकं हि रोपयेत् “॥

Ramachandran

“अभिनन्दनानि”

 

7 Responses to वृक्षमेकं हि रोपयेत् (भागः ३४२) 08-06-2024

  1. Ardra Sajeev says:

    तृतीयस्थानम्

    वृक्षेण तु समो नास्ति
    सर्वजीवनदायकः ।
    अत एवोच्यते प्राज्ञैः
    वृक्षमेकं हि रोपयेत् ॥

  2. Ramachandran says:

    प्रथमस्थानम्

    वायुं भोज्यं च छायाञ्च
    यो ददन्नस्ति सर्वदा ।
    लोकोपकारकं शीघ्रं
    वृक्षमेकं हि रोपयेत् ॥

  3. Radhakrishnan says:

    വൃക്ഷം വിനാ ന വൃ ഷ്ടി: സ്യാത്
    ജീവവായുസ്തഥൈവ ച
    ലോകാനാം സുസ്ഥിതിം ദാതും
    വൃക്ഷമേകം ഹി രോപയേത് .

  4. Bhaskaran N K says:

    द्वितीयस्थानम्

    വ്യക്തീനാഞ്ച സമൂഹാനാം
    സമ്യഗാരോഗ്യവർധനേ
    സുരക്ഷായൈ ച സർവേഷാം
    വൃക്ഷമേകം ഹി രോപയേത് .

  5. Vijayan V Pattambi says:

    प्रकृतिः जीवजालानां
    जीवनाधारदयिका ।
    प्रकृतेः रक्षणायाद्य
    वृक्षमेकं हि रोपयेत् ॥

  6. Sridevi says:

    पत्रं मूलं तथा पुष्पं
    काण्डश्च तदुपकारकम् ।
    नर: स्वस्यैव रक्षायै
    वृक्षमेकं हि रोपयेत् ॥

  7. Narayanan Namboothiri says:

    दशपुत्रसमो वृक्षः
    स्वयमेव हि जायते ।
    उर्वरकं जलं दत्वा
    वृक्षमेकं हि रोपयेत् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *