सर्वसम्मता भवन्तु ।

( 2023 – 24विद्यालयीय वर्षस्य शुभकामनाः )

जूण् माससमारम्भे
केरलेषु यथाविधि ।
विद्यालया : यथापूर्वं
उद्धाट्यन्ते च सर्वशः ॥

छात्रास्त्वुत्साहिनो भूत्वा
धृत्वा वस्त्रं च नूतनम् ।
आदाय नूतनं छत्रं
गच्छन्ति पुण्यमन्दिरम्॥

प्रप्य विद्यालयं तूर्णं
चारूवर्णैश्च लेपितम् ।
आचार्यांस्तु प्रणम्या /थ
स्वस्थानमार्जयन्तु भोः । ।

भाषापठनसन्दर्भे
संस्कृतं सर्वसम्मतम् ।
स्वीकुरत तमेवात्र
भवतां श्रेयसे मुदा ॥

संस्कृतं सर्वभाषाणां
जननी शक्तिशालिनी ।
सरलं ललितं चैव
संस्कृतं लोकरञ्जकम् ॥

पठनात् संस्कृतस्यास्य
जायेत परमोन्नति : ।
पराश्रयं विना नित्यं
जीवितुं प्रभविष्यथ ॥

परनिन्दां परित्यज्य
परसाहाय्यतत्पराः ।
अहङ्कारं च त्यक्त्वाथ
भवत चोत्तमोत्तमः ॥

पुराणेषु पुराणं तत्
नवीनेषु च नूतनम् ।
संस्कृतं सर्वलोकेभ्यः
चित्त सौख्यप्रदायकम् ॥

इतिहासपुराणानां
सारसर्वस्वमार्जितम् ।
सुभाषितसुगन्धैश्च
भूषितं मम संस्कृतम् ॥

पठत पठत छात्राः
संस्कृतं हि निरन्तरम् ।
पठन्तो संस्कृतं नित्यं
भवेयुः सर्वसम्मताः ॥

विजयन् वि पहाम्पि |

Leave a Reply

Your email address will not be published. Required fields are marked *