।। अमरभारतीस्तोत्रम् ।। – Sankaranarayanan Kodakara

।। अमरभारतीस्तोत्रम् ।।

ललितवाग्युता काव्यभूषिता सरसकोमला तत्वबोधिका।

जयतु सर्वदा वेदभूषिता अमरभारती भारते चिरम्।। 1

कविकुलेश्वराराधिता तथा यतिपतीश्वरेनार्चिता सदा ।

लसतु भूतले शास्त्रसंयुता चिरपुरातनी देवभारती।। 2

विविधनाटकैर्गीतिभिर्युता सुकृतवाहिनी वाङ्विमोहिनी ।

जयतु सर्वदा देववन्दिता अमरभारती भूतले चिरम् ।। 3

सकलमोहनम् संस्कृतस्वनम् हितविधायकम् नीतिदायकम् ।

जयतु सर्वदा कर्मशर्मदम् शरणदायकम् भूतले चिरम् ।। 4

मम तु भाषणं संस्कृतं पदम् मम तु पूजनं संस्कृतं सदा ।

मम तु लेखनं दर्शनं तथा मम हि जीवनं संस्कृताय वै।। 5

जनपदे वने पत्तने गृहे लसतु संस्कृतदीपिका सदा ।

अमरभारतीज्ञानदीपनात् भवतु संस्कृताः मानवाः चिरम् ।। 6

( समर्पणम् )

अयि मनोहरे संस्कृताम्बिके तव पदाम्बुजम् अर्चयाम्यहम् ।

तव कृपावशात्काव्यकर्मणि भवतु मे शिवं शं च सन्ततम् ।।

शङ्करनारायणः, कोटकरा

दूरवाणी – 9744780455

Leave a Reply

Your email address will not be published. Required fields are marked *