कविता – विजयन् वि पट्टाम्पि।

भारतं महनीयम्
— – – – – – – – ———-
भारतं जनायत्तं महनीयं महीतलं
महता प्रयासेन देशिकैः समुद्धृतम् । । ।
शतञ्च तत: पुनस्त्रिंशत्कोटिमिताः
जनाश्च निवसन्ति विभिन्नधर्माश्रयाः । ।
गङ्गया यमुनया पुण्यनिलया कावेर्या च
सन्ततं कलगीतैराशंसा: समार्चिताः ॥
हिमवान्महीधरो भारतसंरक्षक –
श्चोन्नतशिरा भूत्वा उत्तरे विराजते ॥
बलवान् शत्रून् सर्वानुत्तरान् महावीर्यान्
वारणं कृत्वा नित्यं भारतमसेवत ॥
धावयन्त्यो नित्यं पादारविन्दौ भक्त्या
सिन्धुवीचयो हन्त ! देशो∫यं पर्यलालयन् ॥
सागरतीरेष्वेव भारतदेशस्यास्य
वाणिज्यं वृद्धिमाप सुस्थिरं निराश्रयम् ॥
सज्जनो महात्मानः बहवो कृतयत्नाः
जीवनं धन्यं कृत्वा राजन्ते सुरलोके ॥
शङ्करो महागुरुरद्वैतमन्त्रान् कृत्वा
किङ्करानकरोत् स लोकान् धर्माश्रयान् ॥
सत्यमेवात्र नित्यं विजयतेतरामिति
उत्तममुच्चैस्तरं धोषयद्राष्ट्रं चैतत् ॥
ऋषयो बहवश्चासन् धर्मस्य संरक्षकाः
शौनक व्यास शुक गौतम पराशराः ॥
संस्कृतं दिव्यामृतं सज्जनै : संसेवितं
तद्भाषाप्रथितं तद्भारतमहापुण्यम् । .
दीपयन्महीतलं काव्यैश्च शास्त्रादिभिः
शोभते सुभाषितैराचन्द्रतारं देशे ।
भारतमितिहासं महत्तमं पाराशर्यं
सपादलक्षात्मकश्लोकैरलङ्कृतम् ॥
उपदेशसहस्रैस्तदनुदिनं राष्ट्रस्यास्य
जीवनमार्गेष्वद्य बहुभ्यो दीपायते ॥
सुखिनो भवन्तु जनाः देशे∫स्मिन्नहर्निशं
आमयान् विना सर्वे मोदन्तामनारतम् ॥
                                              विजयन् वि पट्टाम्पि

One Response to कविता – विजयन् वि पट्टाम्पि।

  1. suresh babu says:

    काव्यं मनोहरम्। अभिनन्दनानि।

Leave a Reply

Your email address will not be published. Required fields are marked *