चन्द्रोदयः। – विजयन् वि. पट्टाम्बी

उदेति मेघमालासु तत्रैवास्तं करोति च।

उदयास्तमयं दृश्यं सर्वचित्तप्रचोदकम्।।

तारकानायकं पश्य रजतकान्तिसमन्वितम्।

पश्यतां बालकेभ्यः स ददाति सुखदर्शनम्।।

मृगं वा स शशाङ्कं वा उदरे वहति सदा।

शशाङ्कश्च मृगाङ्कश्च तस्य नामद्वयं स्मृतम्।।

बालकैस्तु प्रियश्चन्द्रः मामा मामेति गीयते।

चन्द्रिका कस्य वा नेष्टा सुनेत्रद्वयधारिणाम्।।

2 Responses to चन्द्रोदयः। – विजयन् वि. पट्टाम्बी

  1. Dr. P. Narayanan says:

    रजतकान्तिसमन्वितमित्यस्य स्थाने रूप्यकान्तिसमन्वितमिति श्रेयान्, वृत्तसौष्ठवपालनाय । वा उदरे इति विसन्धिः, वहति इत्यत्र षष्ठाक्षरलाघवं च बाधेते। “मृगं वा स शशं वापि वहत्येवोदरे सदा” इति लिख्यते चेच्छशाङ्क एव शशाङ्कं वहतीति विशङ्कापि परिह्रियेत ।

Leave a Reply

Your email address will not be published. Required fields are marked *