विद्यालयीयशिक्षा गुणस्तरसूचिका प्रसिद्धीकृता, केरलं प्रथमस्थाने।

नवदिलल्ली- राज्यस्थेषु केन्द्रशासितप्रदेशेषु च शिक्षारंगस्य प्रवर्तनानि मूल्यनिर्णयं कुर्वन्ती विद्यालय०शिक्षा-गुणवत्ता-सूचिका नीती आयोगेन प्रसिद्धीकृता। ८२.१७ अङ्केन केरलमेव पट्टिकायां प्रथमस्थानमावहति। तमिल् नाटु द्वितीयस्थाने-(१७३.३५ अङ्काः), हरियाणा तृतीयस्थाने-(६९.५४ अङ्काः) च स्तः।
गतवर्षे अपि केरलमेव प्रथमस्थानमवाप। तदानीम् अङ्काः ७७.६४ आसीत्। गतवर्षे पञ्चमस्थानस्थं कर्णाटकराज्यमे अस्मिन् वर्षे त्रयोदशस्थानमेवावाप। हरियाणा गतवर्षे अष्टमस्थाने आसीत् परम् अस्मिन् वर्षे तृतीयस्थानमागतम्।

ओडीषाराज्यमपि गतवर्षापेक्षया औत्कृष्ट्यं प्राकटयत्। अस्मिन् वर्षे ओडीषा सप्तमस्थानमलंकरोति। गतवर्षे त्रयोदशस्थानीयमासीदिदम्।

Leave a Reply

Your email address will not be published. Required fields are marked *