चन्द्रयान-२ चन्द्रनिकटे, आशयविनिमयः विनष्टःः, प्रतीक्षया साकं ऐ.एस्.आर्.ओ.

बंगलूरु- चन्द्रोपरितले मृदुस्पर्शाय उद्यतस्य चन्द्रयानस्य विक्रं लान्टर् उपकरणेन सह आशयविनिमयः विनष्टः इति सूचना। चन्द्रोपरितलात् २.१ कि.मी. उन्नतिपर्यन्तं सूचनाः लब्धाः ततः बन्धः विनष्टः अभवदिति ऐ.एस्.आर्.ओ. अध्यक्षः के. शिवन् वर्यः प्रातः २.१८ वादने आवेदयत्। सूचनाः अन्विष्यमाणः अस्मि पछनानन्तरमेव किमभवदिति वक्तुं पारयामि इत्यपि डो. शिवन् वर्यः अवदत्।

साङ्केतिकसूचनाः न बहिरानीताः, चन्द्रोपरितले स्पर्शनमभवद् वा न वेति न व्यक्तः चन्द्रयानदौत्यस्य प्रधानांशभूतम् ओर्बिट्टर् एकवर्षं यावत् चन्द्रं प्रदक्षिणीकुर्वदवतिष्ठते। विक्रं लाण्टरेन सह बन्धः पुनःस्थापयितुं शक्यते इति प्रतीक्षया तिष्ठति ऐ.एस्.आर्.ओ. संस्था।

Leave a Reply

Your email address will not be published. Required fields are marked *