Monthly Archives: May 2026

युद्धं तु क्लेशवर्धकम् (भागः 445) 30-05-2026

EPISODE – 445

नूतना समस्या –

“युद्धं तु क्लेशवर्धकम्”

प्रथमस्थानम्

“ശാന്തിർവിശ്വസ്യ സൗഭാഗ്യം
യുദ്ധം ശാപം ഭയാനകം
ശാന്തിം വിനാ കഥം സൗഖ്യം?
യുദ്ധന്തു ക്ലേശവർധകം “

Bhaskaran N K

“अभिनन्दनानि”

भाषणं सौम्यमुत्तमम् (भागः 444) – 23-05-2026

EPISODE – 444

नूतना समस्या –

“भाषणं सौम्यमुत्तमम्”

प्रथमस्थानम्

“ഔചിത്യം സർവഥാ കാര്യം
സർവൈസ്സദാപി ഭാഷണേ
സർവലോകപ്രിയായൈവ
ഭാഷണം സൗമ്യമുത്തമം”

Bhaskaran N K

“अभिनन्दनानि”

भवेत्सर्वं हि शोभनम् (भागः 443) 16-05-2026

EPISODE – 443

नूतना समस्या –

“भवेत्सर्वं हि शोभनम्”

प्रथमस्थानम्

“होर्मूस् सागरमध्ये तु
सम्परायस्तु वर्धते ।
आश्वसन्ति जनाश्चात्र
भवेत्सर्वं हि शोभनम्” ॥

Ramachandran

“अभिनन्दनानि”

*अशोकन् पुरनाट्टुकरा* (मेय् 9 : स्मृतिदिनम् )

 

संस्कृतस्य प्रचाराय
यतमानेषु चाग्रणीः ।
अशोक : कश्चिदासीन्मे
पुरनाट्टुकरास्थले । ।

संस्कृताध्यापक : सो /यं
रामकृष्णकलालये ।
छात्राणां क्षेमलाभाय
चाकरोत्कर्म निर्भयम् ॥

सुरेन्द्रस्य सहाय्येन
कटक्कोट्देशवासिनः ।
केरलेषु स सर्वत्र
चोदयामास संस्कृतम् ॥

स्थितं विभिन्नभागेषु
प्रसृतं गुरूमण्डलम् ।
सूत्रे गुम्फितमालेव
योजयमास केसरी ॥

नाटके भाषणे तस्य
प्रागल्भ्यं बहुविश्रुतम् ।
नाटकानि बहून्येष
विलिख्य रङ्गमानयत्॥

संस्कृतस्य प्रचाराय
मासिकीं काञ्चिदुत्तमाम्
प्राकाशयच्च स धीमान्
त्रिंशद्वर्षमितं ततः ॥

कलोत्सवस्य कालेषु
तत्प्रचालनतत्परः ।
छात्राणां विजयायैव
यतमानश्चादृश्यत॥

अकाले गतवान् स्वर्गं
त्यक्त्वा संस्कृतवाङ्मयम् ।
प्लावयन् तत्सुहृल्लोकं
दुःखसागरवीचिषु ॥

नास्त्यत्र शाश्वतं किञ्चित्
केवलं तु यशः स्मृतम् ।
तस्य स्मृतिदिनं चाद्य
चाल्यते त्रिश्शिवान्तिके ॥

आद्रियन्ते संस्कृतज्ञाः
पुरस्कारश्चदीयते ।
तस्यां शुभवेलायां
शंसये सर्वमड्गलम् ॥

विजयन् वि पट्टाम्पि

 

भारत मुद्रापुरस्कारः समर्पितःl

कालस्य पुरः गच्छन् अपूर्व प्रतिभाधनःआसीत् अशोकन् पुटनाकर इति केरल संस्कृत अक्कादमी कार्यदर्शी डा. वि .के विजयन् अवदत् । साड्केतिक विद्यायाः काल एष : ।तत : पूर्वमेव माध्यममण्डले बहूनि परीक्षणानिअशोकेन कृतानि वर्तन्ते । अस्य वर्षस्य भारतमुद्रा (2026 ) पु२स्कारः एकादशशताधिक एकादश सहस्रं रूप्यकात्मक :तथा प्रशस्ति पत्रञ्च डा. एम् वि . नटेशाय समार्पयत् ।कथाकत्री विविर्तका च रमामेनोन् पुरस्कारं डा एम् वी नटेशाय समार्पयत् ।
महाप्रस्थानम् इति अशोक न्पुरनाट्टुकरया विवर्तितं पुस्तकं अम्बिकायै दत्वा रमा मेनान् प्रकाशयत् ।डो एस् एन् महेष् बाबु पुरस्कार जेतारं परिचायितवान् । सि .मनोज् रमेष् नम्बीशन् इत्यादयः आशंसाभाषणमकुर्वन् । के राम दास् महोदयः महाप्रस्थानस्य परिचायनं कृतवान् । पी . के राजन् मास्टर् आध्यक्ष्यं च आवहत् । श्री एन् राजगोपाल :स्वागतं तथा लिबी पुर्नाटटुकरा कृतज्ञतां च अवदत्

मास्तु दुःखं पराजये (भागः 442) 09-05-2026

EPISODE – 442

नूतना समस्या –

“मास्तु दुःखं पराजये”

प्रथमस्थानम्

“जयाजयौ समौ कृत्वा
चित्तमचञ्चलं कुरू ।
मास्तु तोषो जये मित्र
मास्तु दुःखं पराजये” ॥

Sridevi

“अभिनन्दनानि”