भवेत्सर्वं हि शोभनम् (भागः 443) 16-05-2026

EPISODE – 443

नूतना समस्या –

“भवेत्सर्वं हि शोभनम्”

प्रथमस्थानम्

“होर्मूस् सागरमध्ये तु
सम्परायस्तु वर्धते ।
आश्वसन्ति जनाश्चात्र
भवेत्सर्वं हि शोभनम्” ॥

Ramachandran

“अभिनन्दनानि”

9 Responses to भवेत्सर्वं हि शोभनम् (भागः 443) 16-05-2026

  1. NARAYANAN. N says:

    l
    ഹിതാഹിതൌ ക്ഷണം ജ്ഞാത്വാ
    പ്രജാക്ഷേമേ രതസ്സദാ
    ശാസനം സത്യസന്ധം ചേത്
    ഭവേത്സർവ്വം ഹി ശോഭനം

  2. Bhaskaran N K says:

    സത്യം ധർമശ്ച നീതിശ്ച
    വന്ദ്യന്തു സർവഥാ സദാ
    ഏവം പ്രാർത്ഥയതേ ചേത്തു
    ഭവേത്സർവം ഹി ശോഭനം.

  3. हरिनारायणः says:

    आम्नायस्य समग्रस्य
    सार इह निगद्यते।
    धर्ममाचरतः पुंसः
    भवेत्सर्वं हि शोभनम्।।

  4. Radhakrishnan says:

    द्वितीयस्थानम्

    ഇന്ദ്രിയാണാഞ്ച സർവേഷാം
    കാര്യം സംയമനം വരം
    ഏവം ചേദവിതർകേണ
    ഭവേത്സർവം ഹി ശോഭനം.

  5. Narayanan Namboothiri says:

    भौतिका :दैहिका: सन्ति
    दुःखानि धरणीतले ।
    देवताराधनादेव
    भवेत्सर्वं हि शोभनम् ॥

  6. Ramachandran says:

    प्रथमस्थानम्

    होर्मूस् सागरमध्ये तु
    सम्परायस्तु वर्धते ।
    आश्वसन्ति जनाश्चात्र
    भवेत्सर्वं हि शोभनम् ॥

  7. Vijayan V Pattambi says:

    युद्धहेतोः जनस्सर्वे
    क्लिश्यन्ति मूल्यवर्धनात् ।
    प्रतीक्षे भाविनि काले
    भवेत्सर्वं हि शोभनम् ॥

  8. Sridevi says:

    तृतीयस्थानम्

    निर्वाचने समाप्ते तु
    कश्चन विजयी भवेत् ।
    अस्तं गते विवादे तु
    भवेत्सर्वं हि शोभनम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *