जयं प्राप्नोति सज्जनः (भागः ४३३) 07-03-2026

EPISODE – 433

नूतना समस्या –

“जयं प्राप्नोति सज्जनः”

प्रथमस्थानम्

“जेतुं हि यतमाना स्ते
सर्वे स्थानार्थिनः खलु ।
भयं त्यक्त्त्वा विनाशङ्कां
जयं प्राप्नोति सज्जनः” ॥

Vijayan V Pattambi

“अभिनन्दनानि”

11 Responses to जयं प्राप्नोति सज्जनः (भागः ४३३) 07-03-2026

  1. Ramachandran says:

    निर्वाचने तु सम्प्राप्ते
    नेतृणां तु प्रलोभनम् ।
    तत्तु जित्वा स्वधैर्येण
    जयं प्राप्नोति सज्जनः ॥

  2. Budhini says:

    तृतीयस्थानम्

    समस्या: देहसम्बद्धाः
    चित्तबद्धाश्च जीविते ।
    पराजित्य तु तान् सर्वान्
    जयं प्राप्नोति सज्जनः ॥

  3. NARAYANAN. N says:

    ധർമോ ജയതിനാധർമ :
    സത്യം ജയതിനാനൃതം
    ആപ്തവാകും സത്യംചേത്
    ജയം പ്രാപ്നോതി സജ്ജന:

  4. NARAYANAN. N says:

    1
    പുരാ പ്രഭൃതി സംജാതം
    ദുർവൃത്തം സജ്ജനേ ഖലൈ:
    പ്രകൃതേഃ സത്യമേകം സ്യാത്
    ജയം പ്രാപ്നോതി സജ്ജന:

  5. Bhaskaran N K says:

    द्वितीयस्थानम्

    സജ്ജനസ്സർവദാ വന്ദ്യ:
    സുകൃതൈ: പശ്യ ഭൂതലേ
    നിത്യസത്യമിദം വാക്യം
    ജയം പ്രാപ്നോതി സജ്ജന:

  6. Sridevi says:

    विजयते हि सर्वत्र
    सत्यं तु विश्वरक्षकम् ।
    विजित्यानृतभण्डारं
    जयं प्राप्नोति सज्जनः ॥

  7. Radhakrishnan says:

    സമൃദ്ധാവപ്യനുദ്ധത്വം
    സജ്ജനാനാം നു ദൃശ്യതേ
    സത്യവാദീ ജിതക്രോധോ
    ജയം പ്രാപ്നോതി സജ്ജന:

  8. Narayanan Namboothiri says:

    दुर्जनो चाक्रमात् हन्त !
    सज्जनान् जयति सदा ।
    भक्त्या युक्त्या तथा शक्त्या
    जयं प्राप्नोति सज्जनः ॥

  9. Seena Francis says:

    विवाहविषये काचित्
    घटना दोषदा बहु ।
    अन्ते निश्चयदाढ्रर्येण
    जयं प्राप्नोति सज्जनः ॥

  10. Vijayan V Pattambi says:

    प्रथमस्थानम्

    जेतुं हि यतमाना स्ते
    सर्वे स्थानार्थिनः खलु ।
    भयं त्यक्त्त्वा विनाशङ्कां
    जयं प्राप्नोति सज्जनः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *