Daily Archives: January 26, 2023

पद्मपुरस्काराः घोषिताः।

नवदिल्ली- २०२३ वर्षस्य पद्मपुरस्काराः घोषिताः। षट् पद्मविभूषण् पुरस्काराः नव पद्मभूषण् पुरस्काराः ९१ पद्मश्रीपुरस्काराश्च घोषितेषु अन्तर्भवन्ति।

उत्तरप्रदेशस्य भूतपूर्वमुख्यमन्त्री मुलायं सिंह् यादवः, कर्णाटकस्य मुख्यमन्त्रिचरः एस्-एं कृष्ण, तबलवादकः सक्कीर् हुसैन्, ओ-आर्-एस्- प्रयोक्ता दिलीप् महलनोबिस्, वास्तुशिल्पी बालकृष्णदोषी, शास्त्रज्ञः श्रीनिवास वरदः इत्येते पद्मविभूषणेन पुरस्कृताः।

साहित्यविभागे एस्-एल् बैरप्पा,कपिल् कपूर् उद्योगे कुमारमङ्गलं बिर्ला, शास्त्रे दीपक् धरः, कलाविभागे गायिका वाणी जयराम्, सुमन् कल्याणपुर्, आध्यात्मिके स्वामी चिन्ना जीयार्,कमलेष् डी पट्टेल्, समाजसेवने सुधा मूर्ती इत्येते पद्मभूषणेन पुरस्कृताः।

पद्मश्रीपुरस्कृतेषु चत्वारः केरलीयाः सन्ति।स्वातन्त्रसमरसेनानी वि०पि० अप्पुक्कुट्टन् पोतुवाल्, कृषकः चेरुवयल् रामन्, इतिहासकारः सि०ऐ० ऐसक्, आयोधनकलाकारः एस्-आर्-डि- प्रसाद् इत्येते भवन्ति केरलीयाः