Monthly Archives: August 2017

PRASNOTHARAM – 11-11-2017

 

प्रश्नोत्तरम्।

 

 

  • कोषिक्कोट् नगरात्  प्रकाश्यमाना संस्कृतमासिकी का ?
  • भारतस्य ध्येयवाक्यं किम् ?
  • सर्वेन्द्रियेषु प्राधान्यतमम् इन्द्रियं किम् ?
  • नीतिशतकस्य कर्ता कः ?
  • श्रीकृष्णविलासकाव्यस्य कर्ता कः ?
  • कर्णभारं नाम नाटकं केन विरचितं भवति ?
  • नारायणीयस्य कर्ता कः ?
  • अस्य वर्षस्य( 53 th ) ज्ञानपीठपुरस्कारः कस्मै प्रदत्तः?
  • 2017 तम वर्षस्य एषुत्तच्छन् पुरस्कारं कः प्राप्तवान् ?
  •  2017 तम वर्षस्य  ” International Publisher Award ” प्राप्तस्य माध्यमस्य नाम किम्?

 

വിജയിയുടെ പേരുവിവരങ്ങള്‍ താഴെ കൊടുത്തിരിക്കുന്നു.

SOPHIA E V, GHSS KOTTAYI

ശരിയുത്തരമയച്ചവര്‍:

  • SOPHIA E V, GHSS KOTTAYI
  • Harigovind P
  • Leena K S, Pandalam,Pathanamthitta
  • Nikhitha M
  • Advaith C V
  • Anasara Rajendran
  • Jyothika Rajesh
  • Vaishnav Muralidharan
  • Sreelakshmi 7B, AUPS, Panangattiri
  • Rejanai A G, Devanandam,Kurumassery ,EKM
  • Vaisakh K
  • Biji Jayaraj
  • Vinaykrishna K T, Iritty HS
  • Dilkrishna C S std 7B St Mary’s H S Chengaloor
  • Sumathy K K
  • Bushara V P, NPGUPS, Nediyenga Kannur
  • Varsha S
  • Purushothaman M
  • Rohith M S
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍………..”

 

कामयेत शुभं सदा। – 11-11-017

नूतनी समस्या

“कामयेत शुभं सदा”

 ഒന്നാം സ്ഥാനത്തിന് അര്‍ഹമായ സമസ്യ ഇവിടെ പ്രസിദ്ധീകരിക്കുന്നു.

അനുഭൂയ മഹത്കഷ്ടം
ആത്മഹത്യാ ചികീർഷിതം
സമാശ്വാസ്യ ഗുരു: പ്രാഹ
കാമയേത ശുഭം സദാ

Parameswaran H

“വിജയികള്‍ക്ക് അഭിനന്ദനങ്ങള്‍”

यत्र नार्यस्तु पूज्यन्ते…।

कोषिक्कोट्  – समाजे स्त्रीणां तुल्यपरिगणना आवश्यकी। वनिताः प्रति बहुमानं प्रदर्शयितुञ्च पुरुषाः सन्मनोभावाः भवितव्याः इति युव-ऐ.पि.एस् अधिकारिणा मॆरिन् जोसफेन प्रोक्तम्।

देशस्य परमो धर्मः सहिष्णुतैव भवितव्यम्।

बांगलूरु – देशीयतासङ्कल्पस्य अतितीव्रसांस्कारिकप्रतिबद्धता असहिष्णुतायाः धार्ष्ठ्यस्य च मिश्रितदेशभक्तेः कारणः भविष्यति इति स्थानगतः पूर्वतन-उपराष्ट्रपतिः श्री हामिद्-अन्सारिः अवदत्। अनेन इदमपि प्रोक्तं यत् – यत्र व्यत्यस्तस्य शब्दस्य स्थानमस्ति, तत्रैव रूढं  जनाधिपत्यमस्तीति वक्तुं शक्यते ।

उपराष्ट्रपतेः शपथवचनं शुक्रवासरे।

नवदिल्ली – उपराष्ट्रपतित्वेन निर्वाचितः वेङ्कय्या नायिडुः शुक्रवासरे शपथवचनम् अङ्कीकरिष्यति। असौ मोहम्मद्-हामिद्-अन्सारिणः स्थानं ग्रहिष्यति। गतदिने सम्पन्ने उपराष्ट्रपतिनिर्वाचने विपक्षस्य गोपालकृष्णगान्धिना चतुर्चत्वारिंशदधिकं मतानि, श्रीमता वेङ्कय्या-नायिडुना षोडशोत्तरपञ्चशतं मतानि च अधिगतानि।

नीत्यायोगस्य उपाध्यक्षः अर्थशास्त्री राजीवकुमारः।

नवदिल्ली – अर्थशास्त्री राजीवकुमारः नीत्यायोगस्य नूतनोपाध्यक्षो भविष्यति। राजीवकुमारेण ओक्स्फोर्ड् विश्वविद्यालयात् डी.फिल् उपाधिः अधिगता। असौ नीत्यनुसन्धानकेन्द्रे सम्प्रति कार्यनिरतो वर्तते।

चीना-भारतीयम्।

नवदिल्ली – भारतेन प्रोक्तं यत् चीनेन सह डोकलामक्षेत्रे प्रवर्तमान गतिरोधः सम्भाषणमाध्यमेन उपाकरिष्यते अत च युद्धं नैवास्ति समस्यायाः समाधानम्। गतदिने राज्यसभायां परिचर्चावधौ लघुप्रश्नमेकम् उत्तरत्या विदेशमन्त्रिणा सुषमास्वराजेन प्रोक्तं यत् भारत-चीनासीम्नि शान्तिसन्धारणं द्विपाक्षिकसम्बन्धानां विकासार्थम् आवश्यकमस्ति।

विद्यालयेषु इतः परं असमर्थानामवतीर्णता।

नवदिल्ली – विद्यालयेषु अष्टमकक्ष्यापर्यन्तं प्रवर्तमानायाःछात्राणाम् उत्तीर्णता-अनवरोधनीतेः अपसारणं केन्द्रीयमन्त्रिपरिषदा निर्णीतम्। अनया रीत्या विद्यालयेषु इतःपर्यन्तं  पठनविमुखानां छात्राणामपि उत्तीर्णता सुनिश्चितासीत्। अयं निर्णयः  विद्यालयपठनान्तरीक्षं सजीवं कर्तुं उपकारकं भविष्यतीति अभिज्ञाः वदन्ति।

पचनवायोः वित्तानुकूल्यं स्थगयति।

नवदिल्ली – भारते पचनवायुकोशानां कृते दीयमानं वित्तानुकूल्यं आगामि मार्च् मासादारभ्य पूर्णतया समापयितुं केन्द्रसर्वकारेण निर्णीतम्। एतदाधारीकृत्य प्रतिमासं चत्वारि रूप्यकाणि इति क्रमेण आनुकूल्यार्हाणाम् अनिलकोशानां संवर्धयितुं तैलसंस्थाः निर्दिष्टाः इति केन्द्र मृत्तैलविभागमन्त्री धर्मेन्द्रप्रधानः लोकसभां विज्ञापितवान्।
आराष्ट्रं १८.११ कोटि उपभोक्तारः पचनवायुकोशानाम् आनुकूल्यं स्वीकुर्वन्तः सन्ति। दत्तानुकूल्यानां अनिलकोशानां प्रतिमासं रूप्यकद्वयमितिक्रमेण वर्धयितुं २०१६ जूलाई मासादारभ्य अनुमतिः दत्ता आसीत्।तदेव अधुना द्विगुणीकृतम्।