Monthly Archives: August 2017

कार्षिककेरलस्य नववत्सरारंभः।

तिरुवनन्तपुरम् – कोल्लवर्षस्य प्रथममासे प्रथमदिनमद्य समायोज्यते। कार्षिकसंस्कृतौ  नववर्षस्य शुभारंभः इति मन्यते जनैः चिङ्ङमासस्य प्रथमदिनम्। क्षाममासस्य  कर्किटकस्य अन्ते ऐश्वर्यसमृद्धं कर्तुं चिङ्ङमासमायाति इति विश्वासः। अस्मिन् दिने सर्वैषां केरलीयानां कृते नववाण्याः शुभाशंसाः।

बिहारराज्ये जलोपप्लवः – मृतसंख्या ५६

पट्ना – बिहारराज्ये जलोपप्लवेन इतःपर्यन्तं ५६ जनाः मृताः। आहत्य १३ जिल्लासु ६९.८१ जनाः प्रलयबाधिताः सन्ति। निजस्थितिं निर्णीतुं मुख्यमन्त्री श्री नितीषकुमारः द्विवारं व्योमनिरीक्षणं कृतवान्।

उत्तरप्रदेशे अन्वेषणसमितेः अध्यक्षः मुख्यसचिवः।

गोरख्पूर् – उत्तरप्रदेशे गोऱखपुरे चिकित्सकीय-महाविद्यालये बालानां मृत्युप्रकरणस्य अन्वेषणं मुख्यसचिवस्य  अध्यक्षतया विनिर्मितया समित्या कारयितुं घोषणा कृता। राज्यस्य चिकित्सा-शिक्षा-मन्त्री अशुतोषठण्डनः अब्रवीत् यत् घटनां परीक्षितुं राज्यस्य मुख्यसचिवस्य अध्यक्षतायां समितिः विनिर्मिता।

उत्तरप्रदेशे बालमरणं – संख्या ६३एधिता ।

उत्तरप्रदेशे बालमरणे मृतसंख्या एधिता । गोरखपुरे सर्वकारीयातुरालये प्राणवायोः अभावेन मृतेषु नवजाताः शिशवः अपि सन्ति।

कोण्ग्रस् दलीयैः आत्मपरिशोधना करणीया।

नवदिल्ली – प्रमुख-कोण्ग्रस् नेता मणि-शङ्करय्यर् महोदयः अवदत् यत् कोण्ग्रस् दलीयैः अत्मपरिशोधना करणीया इति। नूतनाशयैःः सह दलं जनानामुन्नमनाय कार्याणि आयोजनीयानि इति तस्य अभिप्रायः । अनेनैव दलस्येतस्य प्रसक्तिं परिपालयितुं शक्यते।

उपराष्ट्रपतिः दशवर्षाणि प्रपूरयति।

नवदिल्ली – उपराष्ट्रपतिः श्री हमीद् अन्सारी ह्यः स्वीयं पञ्चवर्षावधिकं द्वितीयं कार्यकालं प्रपूरयत्। सम्प्रति प्राक्तनः केन्द्रीयमन्त्री श्री एम्.वेङ्कय्या नायिडुः स्वकीयं नूतनपदवीं उपराष्ट्रपतिस्थानं अलङ्करिष्यति।

त्रिराष्ट्रीय क्रिक्केट् क्रीडायां भारतस्य विजयः।

प्रिट्टोरिया – आतिथेयराष्ट्रं दक्षिणाफ्रिक्कां विरुद्ध्य त्रिराष्ट्रीय क्रिक्केट् क्रीडायाः अन्तिमस्पर्धायां  भारतस्य सुवर्णकिरीटः। सञ्जु सांसण्, करुण् नायर्, श्रेयस्, बेसिल् तम्पी इति चतस्रः केरलीयाः भारतस्य विजयस्य कारणभूताः  अभवन्। स्कोर् – दक्षिणाफ्रिक्का ५० ओवर् ७-२६७, भारतं ४६.५ ओवर् ३-२७०

ब्लू वेयिल् – विनाशकारी।

तिरुवनन्तपुरम् – ब्लू-वेयिल् इति वेब् क्रीडा अत्यन्तं विनाशकारीति केरलस्य आरक्षकदलाध्यक्षः अवदत्। तत्रान्तरे इमां क्रीडां निरोधयितुं   केन्द्रीय-सर्वकारं प्रति अभ्यर्थयिष्येति मुख्यमन्त्रिणा श्री पिणरायि विजयेन प्रोक्तम्। अनया  क्रीडया अनेकाः तरुणाः इतपर्यन्तं आत्माहुतिं कृतवन्तः इति कारणतः अधिकारिणां सत्वरश्रद्धा अस्मिन् विषये आवश्यकी भवति।

 

संस्कृतसप्ताहः आयोज्यते।

नवदिल्ली – राष्ट्रं महता समुल्लासेन संस्कृतसप्ताहं परिपालयति। अस्मिन् अवसरे प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना स्वीये संस्कृतसन्देशे प्रोक्तं यत् भारतस्य समृद्धः संस्कृतिः संस्कृते अस्ति। संस्कृतस्य सर्वेभ्यः अध्येतृभ्यः मम हार्द्दिक-शुभकामनाः इति।

Debate

സംസ്കൃതഭാഷ, സാഹിത്യം, വ്യാകരണം തുടങ്ങിയ വിഷയങ്ങളില്‍ വിദ്യാര്‍ത്ഥികള്‍ക്കുള്ള സംശയങ്ങള്‍ ഇവിടെ രേഖപ്പെടുത്താം. അതത് വിഷയങ്ങളില്‍ പാണ്ഡിത്യമുള്ളവര്‍ മറുപടി നല്‍കുന്നതായിരിക്കും.

संवादः।