Daily Archives: August 6, 2017

देशस्य परमो धर्मः सहिष्णुतैव भवितव्यम्।

बांगलूरु – देशीयतासङ्कल्पस्य अतितीव्रसांस्कारिकप्रतिबद्धता असहिष्णुतायाः धार्ष्ठ्यस्य च मिश्रितदेशभक्तेः कारणः भविष्यति इति स्थानगतः पूर्वतन-उपराष्ट्रपतिः श्री हामिद्-अन्सारिः अवदत्। अनेन इदमपि प्रोक्तं यत् – यत्र व्यत्यस्तस्य शब्दस्य स्थानमस्ति, तत्रैव रूढं  जनाधिपत्यमस्तीति वक्तुं शक्यते ।

उपराष्ट्रपतेः शपथवचनं शुक्रवासरे।

नवदिल्ली – उपराष्ट्रपतित्वेन निर्वाचितः वेङ्कय्या नायिडुः शुक्रवासरे शपथवचनम् अङ्कीकरिष्यति। असौ मोहम्मद्-हामिद्-अन्सारिणः स्थानं ग्रहिष्यति। गतदिने सम्पन्ने उपराष्ट्रपतिनिर्वाचने विपक्षस्य गोपालकृष्णगान्धिना चतुर्चत्वारिंशदधिकं मतानि, श्रीमता वेङ्कय्या-नायिडुना षोडशोत्तरपञ्चशतं मतानि च अधिगतानि।

नीत्यायोगस्य उपाध्यक्षः अर्थशास्त्री राजीवकुमारः।

नवदिल्ली – अर्थशास्त्री राजीवकुमारः नीत्यायोगस्य नूतनोपाध्यक्षो भविष्यति। राजीवकुमारेण ओक्स्फोर्ड् विश्वविद्यालयात् डी.फिल् उपाधिः अधिगता। असौ नीत्यनुसन्धानकेन्द्रे सम्प्रति कार्यनिरतो वर्तते।