Category Archives: Sanskrit Live

सर्वशक्तं हि भारतम् (भागः 389) 03-05-2025

EPISODE – 389

नूतना समस्या –

“सर्वशक्तं हि भारतम्”

प्रथमस्थानम्

“ശ്രുതിസ്മൃതിപുരാണൈശ്ച
ശാസ്ത്രൈശ്ച ബഹുഭിസ്തഥാ
സുസമ്പന്നമിദം രാഷ്ട്രം
സർവശക്തം ഹി ഭാരതം”

Radhakrishnan

“अभिनन्दनानि”

 

 

 

कमनीयम् महीतलम् (भागः ३८८) 26-04-2025

EPISODE – 388

नूतना समस्या –

“कमनीयम् महीतलम्”

प्रथमस्थानम्

“सुगन्धै: पुष्पजालैश्च
पादपैस्तु फलैर्भरैः ।
कूजनैः पक्षिवर्गाणां
कमनीयं महीतलम्” ॥

Narayanan Namboothiri

“अभिनन्दनानि”

 

दुःखभारं प्रमार्जय (भागः ३८७) 19-04-2025

EPISODE -387

नूतना समस्या –

“दुःखभारं प्रमार्जय”

प्रथमस्थानम्

सर्वकार ! महाशक्त
करपुष्टशरीरक !
आशाजनसहस्रस्य
दुःखभारं प्रमार्जय ॥

Vijayan V Pattambi

“अभिनन्दनानि”

 

“रोदितीयं वसुन्धरा” (भागः ३८६) 12-04-2025

EPISODE – 386

नूतना समस्या –

“रोदितीयं वसुन्धरा”

प्रथमस्थानम्

“आतपेन हि दुःखार्तो

 ह्यत्राशाजनसञ्चयः।
दृष्ट्वा दृष्ट्वा तु तद्दुःखं
रोदितीयं वसुन्धरा” ॥

Narayanan Namboothiri

“अभिनन्दनानि”

 

सुखदं चन्द्रदर्शनम् (भागः ३८५) – ०५-०४-२०२५

EPISODE – 385

नूतना समस्या –

“सुखदं चन्द्रदर्शनम्”

प्रथमस्थानम्

“സംവർധയതി സർവേഷാ-
മാനന്ദപുലകോദ്ഗമം
വിരാജതേ വിനാ ലോപം
സുഖദം ചന്ദ്രദർശനം”

Bhaskaran N K

“अभिनन्दनानि”

 

मनुष्यत्वं महाधनम् (भागः ३८४) 29-03-2025

EPISODE – 384

नूतना समस्या –

“मनुष्यत्वं महाधनम्”

प्रथमस्थानम्

“अनुकम्पा तथा दानं
मानवत्वस्य लक्षणम् ।
आर्जयन्तु . गुणानेतान्
मनुष्यत्वं महाधनम्” ॥

Narayanan Namboothiri

“अभिनन्दनानि”

 

मादकत्वंं महारिपुः (भागः ३८३) 22-03-2025

EPISODE – 382

नूतना समस्या –

“मादकत्वंं महारिपुः”

प्रथमस्थानम्

“ദുർമദോ ദൂരതസ്ത്യാജ്യ:
നിതരാം ദുഃഖഹേതുക:
ഭാവ്യന്തു ജാഗരൂകേണ
മാദകത്വം മഹാരിപു:

Bhaskaran N K

“अभिनन्दनानि”

 

विराजन्ते नराधमाः (भागः ३८२) 15-03-2025

EPISODE – 382

नूतना समस्या –

“विराजन्ते नराधमाः”

प्रथमस्थानम्

“आशाप्रवर्तकाः क्षीणाः
न्याय्यमार्गोपजीविनः ।
अपश्यन्तश्च तान् धीरान्
विराजन्ते नराधमाः” ॥

Vijayan V Pattambi

“अभिनन्दनानि”

 

त्यज मादककौतुकम् (भागः ३८१) 8-03-2025

EPISODE – 381

नूतना समस्या –

“त्यज मादककौतुकम्”

प्रथमस्थानम

“वाञ्छसि यदि ते सौख्यं
शान्तिर्गेहे मनस्सुखम् ।
भज सज्जनसंसर्गं
त्यज मादककौतुकम्” ॥

Sridevi

“अभिनन्दनानि”

 

नूतना समस्या (भागः ३८०) 01-03-2025

EPISODE – 380

नूतना समस्या –

“चित्तं भवति चञ्चलम्”

प्रथमस्थानम्

“आशापाशेन बद्धानां
नास्ति सौख्यं कदाचन ।
तेषां हि मानवानान्तु
चित्तं भवति चञ्चलम्” ॥

Ramachandran

“अभिनन्दनानि”