Category Archives: Sanskrit Live
विराजन्ते नराधमाः (भागः ३८२) 15-03-2025
EPISODE – 382
नूतना समस्या –
“विराजन्ते नराधमाः”
प्रथमस्थानम्
“आशाप्रवर्तकाः क्षीणाः
न्याय्यमार्गोपजीविनः ।
अपश्यन्तश्च तान् धीरान्
विराजन्ते नराधमाः” ॥
Vijayan V Pattambi
“अभिनन्दनानि”
त्यज मादककौतुकम् (भागः ३८१) 8-03-2025
EPISODE – 381
नूतना समस्या –
“त्यज मादककौतुकम्”
प्रथमस्थानम
“वाञ्छसि यदि ते सौख्यं
शान्तिर्गेहे मनस्सुखम् ।
भज सज्जनसंसर्गं
त्यज मादककौतुकम्” ॥
Sridevi
“अभिनन्दनानि”
नूतना समस्या (भागः ३८०) 01-03-2025
EPISODE – 380
नूतना समस्या –
“चित्तं भवति चञ्चलम्”
प्रथमस्थानम्
“आशापाशेन बद्धानां
नास्ति सौख्यं कदाचन ।
तेषां हि मानवानान्तु
चित्तं भवति चञ्चलम्” ॥
Ramachandran
“अभिनन्दनानि”
जलाभावे विनश्यति (भागः ३७९)
EPISODE – 379
नूतना समस्या –
“जलाभावे विनश्यति”
प्रथमस्थानम्
पञ्चभूतेषु सर्वेषु
जलमेव प्रधानकम् ।
सर्वं चराचरं हा धिक्
जलाभावे विनश्यति ॥
Narayanan Namboothiri
“अभिनन्दनानि”
सौख्यं भवतु सर्वदा (भागः ३७८) 15-02-2025
EPISODE – 378
नूतना समस्या –
“सौख्यं भवतु सर्वदा”
प्रथमस्थानम्
“ലോകമങ്ഗളസിദ്ധ്യർഥം
പ്രാർഥനീയമഹർനിശം
സർവേഷാം പ്രാണിനാം സമ്യക്
സൗഖ്യം ഭവതു സർവദാ”
Bhaskaran N K
“अभिनन्दनानि”
वर्धते ग्रीष्मताणडवम् (भागः ३७७) 15-02-2025
EPISODE – 377
नूतना समस्या –
“वर्धते ग्रीष्मताणडवम्”
प्रथमस्थानम्
“इदानीं के२ले देशे
तापस्तु वर्धते बहु ।
प्रणयकुपितेवात्र
वर्धते ग्रीष्मताण्डवम्”॥
Vidya
“अभिनन्दनानि”
पुष्पं हृदयहारकम् (भागः ३७६) 01-02-2025
EPISODE – 376
नूतना समस्या –
“पुष्पं हृदयहारकम्”
प्रथमस्थानम्
“पद्मसौगन्धसम्पुष्टं
वर्णवस्त्रैरलङ्कृतम् ।
नारीस्वरूपमापन्नं
पुष्पं हृदयहारकम् “॥
Sridevi
“अभिनन्दनानि”
न वदेदनृतं वचः (भागः ३७५) 25-01-2025
EPISODE – 375
नूतना समस्या –
“न वदेदनृतं वचः”
प्रथमस्थानम्
सम्मुखे श्रेष्ठवैद्यस्य
प्राड्विवाकस्य सन्निधौ ।
पारिवारिकसङ्घे च
न वदेदनृतं वचः ॥
Ramachandran
“अभिनन्दनानि”
नूतना समस्या (भागः ३७४) 18-01-2025
EPISODE – 374
नूतना समस्या –
“सर्वन्तु शुभदं भवेत्”
പ്രഥമസ്ഥാനം
സംവദേത് ശപഥം സത്യം
സഞ്ചരേത് സുപഥം സദാ
സന്ത്യജേദസതാം സഖ്യം
സർവന്തു ശുഭദം ഭവേത്
Radhakrishnan
“अभिनन्दनानि”
कालस्तु सर्वभक्षकः (भागः ३७३) 11-01-2025
EPISODE – 373
नूतना समस्या –
“कालस्तु सर्वभक्षकः ॥”
प्रथमस्थानम्
“ഭക്ഷ്യാഭക്ഷ്യ വിവേകോ ന
കാലസ്യ ഹി ജഗത്യ ഹോ
സർവകർമസു സാക്ഷീ സഃ
കാലസ്തു സർവഭക്ഷകഃ”
Atheetha
“अभिनन्दनानि”











