Category Archives: Sanskrit Live

नववाणी विराजते (भागः ३७२) 04-01-2025

EPISODE – 372

नूतना समस्या –

“नववाणी विराजते”

प्रथमस्थानम्

“सर्वैराद्रियमाणं तत्
संस्कृतं लोकविश्रुतम् ।
संस्कृतस्य प्रचारे तु
नववाणी विराजते”॥

Ramachandran

“अभिनन्दनानि”

नूतना समस्या (भागः ३७१) 28-12-2024

EPISODE – 371

नूतना समस्या –

“सर्वेभ्यः शुभकामनाः”

പ്രഥമസ്ഥാനം

“ഭദ്രം ശൃണ്വന്തു കർണൈശ്ച
ഭദ്രം പശ്യന്തു ലോചനൈ:
ഭദ്രം ഭവതു ഹാ സർവം
സർവ്വേഭ്യോ ശുഭകാമനാ:”

Bhaskaran N K

“अभिनन्दनानि”

 

शीतं हि स्वापवर्धकम् (भागः ३७०) 21-12-2024

EPISODE – 370

नूतना समस्या –

“शीतं हि स्वापवर्धकम्”

प्रथमस्थानम्

“സമാരബ്ധേ ധനുർമാസേ
സമായാതി തു ശീതതാ
സുഖിനാമലസാനാഞ്ച
ശീതം ഹി സ്വാപവർധകം”

Radhakrishnan

“अभिनन्दनानि”

 

नरजन्म महत्तरम् (भागः ३६९) 14-12-2024

EPISODE – 369

नूतना समस्या –

“नरजन्म महत्तरम्”

प्रथमस्थानम्

“नरत्वं दुर्लभं लोके
पूर्व पुण्यसमार्जितम् ।
सर्वेषु प्राणिवर्गेषु
नरजन्म महत्तमम्” ॥

Vijayan V Pattambi

“अभिनन्दनानि”

 

विद्या सर्वार्थसाधिका (भागः ३६८) 07-12-2024

EPISODE – 368

नूतना समस्या –

“विद्या सर्वार्थसाधिका”

प्रथमस्थानम्

“विद्या नरस्य सौन्दर्यं
विद्या हि परमं धनम् ।
विद्यया लभते सर्वं
विद्या सर्वार्थसाधिका” ॥

Vijayan V Pattambi

“अभिनन्दनानि”

 

सत्यमेव सदा वदेत् (भागः ३६७) 30-11-2024

EPISODE – 367

नूतना समस्या –

“सत्यमेव सदा वदेत्”

प्रथमस्थानम्

“സത്യം ശാശ്വതികം ലോകേ
സത്യമൂലമിദം ജഗത്
സത്യം യത്‌നേന സംരക്ഷേത്
സത്യമേവ സദാ വദേത്”

Radhakrishnan

“अभिनन्दनानि”

मानो हि महतां धनम् (भागः ३६६) 23-11-2024

EPISODE – 366

नूतना समस्या –

“मानो हि महतां धनम्”

प्रथमस्थानम्

“മാനഹീനാ നരാഃ ഹന്ത!
ഗമിഷ്യന്ത്യുപഹാസ്യതാം
മാനേനൈവോന്നതിർനൂനം
മാനോ ഹി മഹതാം ധനം”

Atheetha

“अभिनन्दनानि”

 

वरं ललितजीवनम् (भागः ३६५) 16-11-2024

EPISODE – 365

नूतना समस्या –

“वरं ललितजीवनम्”

प्रथमस्थानम्

प्राणत्यागं तु कुर्वन्ति
बहवः पुरुषाः भुवि ।
प्राणत्यागनिरासाय
वरं ललितजीवनम् ॥

Sridevi

“अभिनन्दनानि”

 

तमाहुः पण्डितं जनाः (भागः ३६४) 09-11-2024

EPISODE – 364

नूतना समस्या –

“तमाहुः पण्डितं जनाः”

प्रथमस्थानम्

स्वयं पठति शास्त्राणि
पाठयत्यपरांश्च यः ।
निस्वार्थिनं च धीमन्तं
तमाहुः पण्डितं जनाः ॥

Narayanan Namboothiri

“अभिनन्दनानि”

जलं श्रेष्ठं धनं स्मृतम् (भागः ३६३) 02-11-2024

EPISODE – 363

नूतना समस्या –

“जलं श्रेष्ठं धनं स्मृतम्”

प्रथमस्थानम्

न धनं धनमित्याहुः
जलं हि धनमुच्यते ।
येन भूतानि जीवन्ति
जलं श्रेष्ठं धनं स्मृतम् ॥

Vijayan V Pattambi

“अभिनन्दनानि”