Category Archives: Sanskrit Live

प्रवृत्तं लघुवर्षणम् (भागः ३९२) – 24-05-2025

EPISODE – 392

नूतना समस्या –

“प्रवृत्तं लघुवर्षणम्”

प्रथमस्थानम्

“പ്രചണ്ഡശ്ചണ്ഡഭാനുശ്ച
പ്രാപ്നോതി മന്ദതാം ഗതിം
പ്രഹൃഷ്ടന്തു ജഗത്സർവം
പ്രവൃത്തം ലഘുവർഷണം”

Radhakrishnan

“अभिनन्दनानि”

 

स्नेहात्तु विन्दते जयम् (भागः ३९१) – 17-05-2025

EPISODE – 391

नूतना समस्या –

“स्नेहात्तु विन्दते जयम्”

प्रथमस्थानम्

“ന ഹി സ്നേഹസമോ ബന്ധു:
ന ഭൂതോ ന ഭവിഷ്യതി
സർവേഷാം സാധകം സ്നേഹ:
സ്നേഹാത്തു വിന്ദതേ ജയം”

Atheetha

“अभिनन्दनानि”

 

वैरभावो न शाम्यति (भागः ३९०) – 10-05-2025

EPISODE – 390

नूतना समस्या –

“वैरभावो न शाम्यति”

പ്രഥമസ്ഥാനം

“നാഗാശ്ച നകുലാ: നിത്യം
മിഥ: പ്രോക്താശ്ച ശത്രവ:
ജന്മപ്രഭൃതി തേഷാന്തു
വൈരഭാവോ ന ശാമ്യതി”

 

Radhakrishnan

“അഭിനന്ദനങ്ങൾ..”

सर्वशक्तं हि भारतम् (भागः 389) 03-05-2025

EPISODE – 389

नूतना समस्या –

“सर्वशक्तं हि भारतम्”

प्रथमस्थानम्

“ശ്രുതിസ്മൃതിപുരാണൈശ്ച
ശാസ്ത്രൈശ്ച ബഹുഭിസ്തഥാ
സുസമ്പന്നമിദം രാഷ്ട്രം
സർവശക്തം ഹി ഭാരതം”

Radhakrishnan

“अभिनन्दनानि”

 

 

 

कमनीयम् महीतलम् (भागः ३८८) 26-04-2025

EPISODE – 388

नूतना समस्या –

“कमनीयम् महीतलम्”

प्रथमस्थानम्

“सुगन्धै: पुष्पजालैश्च
पादपैस्तु फलैर्भरैः ।
कूजनैः पक्षिवर्गाणां
कमनीयं महीतलम्” ॥

Narayanan Namboothiri

“अभिनन्दनानि”

 

दुःखभारं प्रमार्जय (भागः ३८७) 19-04-2025

EPISODE -387

नूतना समस्या –

“दुःखभारं प्रमार्जय”

प्रथमस्थानम्

सर्वकार ! महाशक्त
करपुष्टशरीरक !
आशाजनसहस्रस्य
दुःखभारं प्रमार्जय ॥

Vijayan V Pattambi

“अभिनन्दनानि”

 

“रोदितीयं वसुन्धरा” (भागः ३८६) 12-04-2025

EPISODE – 386

नूतना समस्या –

“रोदितीयं वसुन्धरा”

प्रथमस्थानम्

“आतपेन हि दुःखार्तो

 ह्यत्राशाजनसञ्चयः।
दृष्ट्वा दृष्ट्वा तु तद्दुःखं
रोदितीयं वसुन्धरा” ॥

Narayanan Namboothiri

“अभिनन्दनानि”

 

सुखदं चन्द्रदर्शनम् (भागः ३८५) – ०५-०४-२०२५

EPISODE – 385

नूतना समस्या –

“सुखदं चन्द्रदर्शनम्”

प्रथमस्थानम्

“സംവർധയതി സർവേഷാ-
മാനന്ദപുലകോദ്ഗമം
വിരാജതേ വിനാ ലോപം
സുഖദം ചന്ദ്രദർശനം”

Bhaskaran N K

“अभिनन्दनानि”

 

मनुष्यत्वं महाधनम् (भागः ३८४) 29-03-2025

EPISODE – 384

नूतना समस्या –

“मनुष्यत्वं महाधनम्”

प्रथमस्थानम्

“अनुकम्पा तथा दानं
मानवत्वस्य लक्षणम् ।
आर्जयन्तु . गुणानेतान्
मनुष्यत्वं महाधनम्” ॥

Narayanan Namboothiri

“अभिनन्दनानि”

 

मादकत्वंं महारिपुः (भागः ३८३) 22-03-2025

EPISODE – 382

नूतना समस्या –

“मादकत्वंं महारिपुः”

प्रथमस्थानम्

“ദുർമദോ ദൂരതസ്ത്യാജ്യ:
നിതരാം ദുഃഖഹേതുക:
ഭാവ്യന്തു ജാഗരൂകേണ
മാദകത്വം മഹാരിപു:

Bhaskaran N K

“अभिनन्दनानि”