Category Archives: Sanskrit Live
वर्षं नूतनमागतम् (भागः ४२४) 03-01-2026
EPISODE – 424
नूतना समस्या –
“वर्षं नूतनमागतम्”
प्रथमस्थानम्
“कालचक्रप्रवाहेण
यथाकालं यथोचितम् ।
सुखदुःखैश्च सम्मिश्रं
वर्षं नूतनमागतम्” ॥
Narayanan Namboothiri
“अभिनन्दनानि”
सत्यस्यैव जयो ध्रुवम् (भागः ४२३) 27-12-2025
EPISODE – 423
नूतना समस्या –
“सत्यस्यैव जयो ध्रुवम्”
प्रथमस्थानम्
“इतिहासपुराणेषु
विद्यन्ते धार्मिकाः कथाः ।
सारस्तासां तु सर्वासां
सत्यस्यैव जयो ध्रुवम्” ॥
Sridevi
“अभिनन्दनानि”
प्रालेयं सौख्यदायकम् (भागः ४२२) 20-12-2025
EPISODE – 422
नूतना समस्या –
“प्रालेयं सौख्यदायकम्”
प्रथमस्थानम्
“इच्छन्ति जीविनः सर्वे
सुखमेव निरन्तरम् ।
अकाले चास्तु वा काले
प्रालेयं सौख्यदायकम्” ॥
Sridevi
“अभिनन्दनानि”
मतदानं महत्तरम् (भागः ४२१) – 13-12-2025
EPISODE – 421
नूतना समस्या –
“मतदानं महत्तरम्”
प्रथमस्थानम्
“പ്രജാക്ഷേമായ സൗഖ്യായ
പ്രജാഭിരേവ നിർമിതം
തദർഥം ശാസനം കർത്തും
മതദാനം മഹത്തരം“
Narayanan N
“अभिनन्दनानि”
वर्षान्तं हि समागतम् (भागः ४२०) 06-12-2025
EPISODE – 420
नूतना समस्या –
“वर्षान्तं हि समागतम्”
प्रथमस्थानम्
“ഷഡ്വിംശത്യധികോപേത –
ദ്വിസഹസ്രേ സമാഗതേ
നിർവ്വാചനോത്സവൈസ്സാകം
വർഷാന്തം ഹി സമാഗതം”
Narayanan N
“अभिनन्दनानि”
सौख्यायैव हि वर्षणम् (भागः ४१९) 29-11-2025
EPISODE – 419
नूतना समस्या –
“सौख्यायैव हि वर्षणम्”
प्रथमस्थानम्
“വൃശ്ചികസ്യ സമാരംഭേ
ശൈത്യകാലേ സമാഗതേ
തുഷാരബിന്ദുസംയുക്തം
സൗഖ്യായൈവ ഹി വർഷണം“
Narayanan N I
“अभिनन्दनानि”
शरीरं हि महाधनम् (भागः ४१८) 22-11-2025
EPISODE – 418
नूतना समस्या –
“शरीरं हि महाधनम्”
प्रथमस्थानम्
“न धनं धनमित्याहुः
मौक्तिकं नापि काञ्चनम् ।
आकरो सुखदुःखानां
शरीरं हि महाधनम्” ॥
Vijayan V Pattambi
“अभिनन्दनानि”
स्वापस्तु सुखदो भवेत् (भागः ४१७) 16-11-2025
EPISODE – 417
नूतना समस्या –
“स्वापस्तु सुखदो भवेत्”
प्रथमस्थानम्
“कर्म करोति सामोदं
दिनेषु यदि सज्जन:|
नात्र पक्षान्तरस्तस्य
स्वापस्तु सुखदो भवेत्” ॥
Narayanan Namboothiri
“अभिनन्दनानि”
प्रधानं तु शिशोर्दिनम् (भागः ४१६) 08-11-2025
EPISODE – 416
नूतना समस्या –
“प्रधानं तु शिशोर्दिनम्”
प्रथमस्थानम्
“ചാച്ചാജീതി വിഖ്യാത:
ഭാരതസ്യ തു ഭാസ്കര:
തസ്യ ജന്മതിഥിർനൂനം
പ്രധാനന്തു ശിശോർദിനം”
Radhakrishnan
“अभिनन्दनानि”
तुलादौ वर्धते निशा (भागः ४१५) – 01-11-2025
EPISODE – 415
नूतना समस्या –
“तुलादौ वर्धते निशा”
प्रथमस्थानम्
“मोदन्तां सर्वलोकस्था :
स्वापप्रणयिनो जनाः ।
तेषां स्वप्नस्य लाभाय
तुलादौ वर्धते निशा” ॥
Narayanan Namboothiri
“अभिनन्दनानि”













