Category Archives: News Updates
विश्व-केरलसभायाः प्रथमं पश्चिमेष्या अधिवेशनम् अद्य दुबै राष्ट्रे।
अबुदाबि- विश्वकेरलसभायाः प्रथमं पश्चिमेष्या मेखला अधिवेशनं दुबै राष्ट्रे मुख्यमन्त्री पिणरायि विजयन् वर्यः उद्घाटयिष्यति। दुबै इत्तिसलात् अक्कादम्याम् शुक्रवासरे शनिवासरे च अदिवेशनं निश्चितमस्ति।
केरलाद् बहिः आयोज्यमाने अधिवेशने गल्फ् प्रविश्यायां प्रवासिभिः अनुभूयमानाः समस्याः चर्चिष्यन्ते। शताधिकाः प्रतिनिधयः अस्मिन् भागं भजिष्यन्ति।
प्रवासिनां कृते आविष्क्रियमाणाः परियोजनाः अधिकृत्य मुख्यमन्त्री विशदयिष्यति। विश्वकेरलसभायाः सप्त उपसमितयः सन्ति तासां निर्देशानुसारं चर्चा भविष्यति।
संस्कृतमाधुरी- समापनसमारोहः।
इरिङ्ङालक्कुटा- राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः नेतृत्वे माध्यमिकस्तरीयाणां छात्राणां कृते संस्कृतपठनपरिपोषणाय प्रवृत्तिपथमायोजयन्ती पद्धतिः भवति संस्कृतमाधुरी। राज्ये प्रथमं दशसु विद्यालयेषु आदर्शरूपेण अस्य निर्वहणं व्यदधात्।
इरिङ्ङालक्कुटा नटवरम्प् उच्चतरविद्यालये अस्याः पद्धतेः समापनं जूबिली हाल् वेदिकायां सुसम्पन्नम्। तदनुबन्ध्य क्रीडाकक्ष्यायाः आरभ्य दशमकक्षंयापर्यन्तेभ्यः छात्रेभ्यः संस्कृतक्रीडानिर्देशः अदात्। संस्कृतक्रीडोत्सवस्य उद्घाटनं ग्रामपञ्चायत् अध्यक्षा इन्दिरा जयतिलकन् निरवहत्। जिल्ला पञ्चायत् सदस्यः टी.जी. शङ्करनारायणः समापनसमारोहम् उदघाटयत्। रक्षाकर्तृसमित्यध्यक्षः एं.के. मोहनन् वर्यः आध्यक्ष्यं व्यदधात्। प्रथमाध्यापिका लालीवर्या स्वागतं तथा संस्कृताध्यापकः सुरेष्बाबू कृतज्ञतां च अर्पयामासतुः। डो. महेष् बाबू, बाबू कोटश्शेरि प्रभृतयः आशंसां व्याहरन्।
ट्विट्टर् मध्ये व्याजानां निरोधः, प्रधानमन्त्रिणः ४ लक्षम् अनुगतिकाः बहिर्गताः। राहुल्गान्धिनः अनुगतिकानां संख्या अपि न्यूना जाता।
नवदिल्ली- व्याजादेशान् अवगत्य अनुप्रवर्तनम् आरब्धे सति प्रधानमन्त्रिणः नरेन्द्रमोदिनः काण्ग्रेस् दलनेतुः राहुल्गान्धिनः तथा असंख्यकाऩां राजनैतिकनेतृृृृणां च लक्षपरिमिताः ट्विट्टर् आदेशाः विनष्टाः।
व्याजादेशायुक्ताः अनुगतिकाः प्रधानमन्त्रिणमेव अधिकतया अनुगच्छन्ति। गतजूलैमासादारभ्य व्याजलेखायुक्तान् अनुगतिकान् अवगत्य तेषामादेशान् समापयत्। ततःपरं नरेन्द्रमोदिनः अनुगतिकेषु लक्षत्रयं व्याजलेखायुक्ताः बहिर्गताः।
दिल्लीस्था इन्द्रप्रस्था इन्स्टिट्ट्यूट् आफ् टेक्नोलजी संस्था एव व्याजलेखायुक्तानां प्रभावं बहिरानयत्।
नववाण्याः दशमं वार्षिकदिनम्।
इरिङ्ङालक्कुटा – फिब्रुवरी १० दिनाङ्कः नववाण्याः दशमं जन्मदिनं भवति। २०१० फेब्रुवरी १० दिनाङ्के एव नववाणी इति जालपुटस्य औपचारिकम् उद्घाटनमभवत्। तृशूर् मण्डले इरिङ्ङालक्कुटा विद्याभ्यासमण्डलस्य संस्कृतं कौण्सिल् नेतृत्वे समायेजितो/यं जालपुटः अद्य शाखोपशाखाभिः विवर्धमानः वर्तते। अस्य प्रायोजकः सी.वी. जोस् वर्यः अन्तर्जाललोके संस्कृतस्यापि अद्वितीयं स्थानमस्तीति सर्वान् संस्कृतशिक्षकान् अस्मारयत्।
नूतनया साङ्केतिकविद्यया पठनप्रवर्तनानि आयोजयितुं सहायकानि बहूनि कार्याणि अस्मिन् जालपुटे सन्ति। वर्षद्वयात् पूर्वं अस्य मोबैल् आप् तथा मोबैल् व्यू अपि प्रवृत्तिपथमानीतं वर्तते। येन सङ्गणकानां साहाय्यं विनैव अतितान्त्रिकरीत्या पाठयितुम् अध्यापकाः प्रभवन्ति।
श्रीशङ्कराचार्य-संस्कृतविश्वविद्यालयस्य तदानीन्तनः कुलपतिः तथा राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषदः अधुनातनः निदेशकः डो. जे. प्रसाद् वर्यः २०१० फेब्रुवरी १० दिनाङ्के इरिङ्ङालक्कुटायां नववाणी जालपुटस्य उद्घाटनं व्यदधात्। डो. के.जी. पौलोस् वर्यः अपि सन्निहितः आसीत्।
दशमे अस्मिन् जन्मदिने अनुवाचकेभ्यः आशंसामर्पयामः।
शबरिमलायां पुनः नियन्त्रणानि आयोज्यन्ते।
पत्तनंतिट्टा- शबरिमलायां पुनः सन्दर्शकनियन्त्रणम् आयोजयितुं रक्षिदलं सन्नह्यति। कुम्भमासपूजार्थं कुजवासरे मन्दिरोद्घाटनं भविता। अस्मिन् साहचर्ये निलक्कल् प्रदेशात् सन्निधानपर्यन्तं नियन्त्रणम् आयोजयिष्यति।
युवतीप्रवेशविषये प्रतिषेधमालक्ष्य भक्तेभ्यः सुगमं दर्शनं विधातुं सर्वकारः सदा सन्नद्धः भवति, तदर्थमेव नियन्त्रणमिति पत्तनंतिट्टमण्डल-रक्षिदलाधिकारी न्यगादीत्।
सुरक्षायाः भागत्वेन कुजवासरे भक्त-पत्रकारप्रभृतयः सर्वे जनाः प्रातः दशवादनानन्तरमेव निलक्कल् तः पम्पा-सन्निधानं प्रति प्रवेशमर्हन्ति। पूजादिवसेषु शान्तिं संरक्षितुं सर्वैः सहकारिभिः भाव्यम् इति रक्षिदलनेता अभ्यर्थयत्।
पूजार्थं फेब्रुवरी १२ कुजवासरादारभ्य १७ रविवासरपर्यन्तं सन्निधाने प्रवेशः भविता।
दशरूप्यकशुल्केन त्रिचक्रिकायां यात्रा, कोच्ची मेट्रो रयिल् निगमस्य नूतना पद्धतिः।
कोच्ची- कोच्ची नगरे अवरतः दशरूप्यकाणां शुल्केन त्रिचक्रिकायात्रासेवा समारब्धा। त्रिचक्रिकाकर्मकराणां संयुक्तसंघस्य नेतृत्वे कोच्ची मेट्रो निगमस्य अनुबन्धसेवारूपेण प्रवर्तमानायाः त्रिचक्रिकासेवायाः कृते वैद्युतिमुपयुज्य प्रवर्तमानाः त्रिचक्रिकाः सज्जाः भवन्ति।
पद्धतेः सूत्रधारत्वं कोच्ची मेट्रोरयिल् निगमस्यास्ति। प्रथमं किलोमीट्टर् द्वयपर्यन्तं दशरूप्यकाणि, अतिरिक्तैकैक कि.मी. कृते पञ्चरूप्यकाणि इति क्रमः। वैद्युतत्रिचक्रिकायां चत्वारो जनाः प्रयाणाय प्रभवन्ति। एकैकः दशरूप्यकाणि दद्यात्। षेयर् ओट्टो इत्यस्य नामास्ति।
परिस्थितिमलिनीकरणात् विमुक्ता भवति इत्यस्याः विशेषता। अपि च जी.पी. एस्. सुविधा अस्तीत्यतः सुरक्षा अपि भवति।
अपगताचरणम्- अध्यापकान् गृहीतुमागतं रक्षिदलं छात्रैः अवरुद्धम्।
मूवाट्टुपुषा- छात्राणां पुरतः मर्यादारहितः आचारः इत्याक्षेपे वालकं ब्रैट् पब्लिक् स्कूल् नामकस्य विद्यालयस्य प्रांशुपालं तथा प्रथमाध्यापिकां च गृहीतुमागतं रक्षिदलसंघं छात्राः नियरुन्धन्। अन्तरिक्षे संघर्षभरिते जाते रक्षिदलसंघः प्रतिनिवृत्तः।
प्रांशुपालः जोर्ज् ऐसक् तथा तस्य पत्नी तथा प्रथमाध्यापिका च लिमा जोर्ज् इत्येतयोः गृहीतुमागतं संघमेव छात्राः रक्षाकर्तारः च मलित्वा न्यरुन्धन्।
गतदिने रक्षाकर्तृमेलने छात्राणां पुरतः कंचन रक्षितारम् असभ्यवचनैः अपामानयत् इति कस्याश्चन मातुः आवेदने एव रक्षिदलस्य अयमुुक्रमः जातः।
एन्डोसल्फान् प्रक्षोभः अवसितः।
तिरुवनन्तपुरम्- कासरगेड् देशीयैः एन्डोसल्फान् दुरितबाधितैः तिरुवनन्तपुरं सचिवालयस्य पुरतः समायोजितः उपवाससमरः पर्यवसितः। मुख्यमन्त्रिणः पिणरायि विजयस्य सान्निध्ये क्रियमाणया चर्चया एव समरमवसितुं निर्णयो जातः। मुख्यमन्त्रिणः निजीयकार्यदर्शी एं.वी. जयराजन् वर्यः एव कार्यमिदं पत्रालयान् न्यवेदयत्।
दुरिकबाधितानां पट्टिकायां इतो/प्यधिकं नाम अन्तर्भाव्यमिति समरसमितेः आवश्ये सर्वकारः अनुकूलतां प्राकटयत्। एतदर्थम् अनुस्यूतकार्यक्रमान् आयोजयितुं मण्डलाधिपं निरदिशत्।
दुरतबाधितानाम् अष्टौ परिवाराः गतेषु पञ्चगिवसेषु सचिवालयगोपुरे समरं कुर्वन्तः आसन्।
केन्द्रिय समाचारविभागस्य (सी.बी.ऐ.) मेधावित्वेन ऋषिकुमारशुक्लावर्यः नियुक्तः।
नवदिल्ली- अनिश्चितत्वस्यान्ते नूतनः सी.बी.ए. निदेशकत्वेन ऋषिकुमारशुक्लावर्यः केन्द्रसर्वकारेण नियुक्तः सः मध्यप्रदेशे अरक्षिदलस्य परमनिदेशकः आसीत्। प्रधानमन्त्रिणः आध्यक्ष्ये उन्नताधिकारसमितिरेव बहुदिवसस्य अधिवेशन्नन्तरं एनं न्ययुञ्जत। 30 प्रत्याशिनां पट्टिकातः इयं नियुक्तिः जाता। प्रधानमन्त्री नरेन्द्रमोदीवर्यः, विपक्षदलनेता मल्लिकार्जुन खार्गे, मुख्यन्यायाधीशः रञ्जन् गोगोय् च समित्याम् अङ्गानि सन्ति।
सि.बि.ए. निदेशकनियुक्तिः अनिश्चिततया विलम्बते इति कारणेन सर्वोच्चन्यायालयस्य विमर्शः सञ्जातः आसीत्। एतादृशी संस्था तात्कालिकनिदेशकेन प्रवर्तते इत्येतत् नाङ्गीकर्तुं शक्यते इत्यासीत् न्यायालयविमर्शः।
छात्रैः रचितं ह्रस्वचलचित्रं प्रधानमन्त्रिणः प्रशंसामवाप।
स्वस्थाः जनाः राष्ट्रस्य सम्पदः।
तृशूर्- प्रधानमन्त्रिणः स्वच्छभारत अभियानमनुसृत्य स्वच्छताविषये तृशुर् मट्टत्तूर् माध्यमिकविद्यालयीयैः छात्रैः निर्मितं ह्रस्वचलच्चित्रं प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य प्रशंसामवाप।
पूर्वं राज्य-संस्कृतं कौण्सिल् विद्यालयीयछात्राणां कृते ह्रस्वचलचित्रप्रतियोगितां समायोजयदासीत्। तदात्वे रचितमिदं चलच्चित्रम्। तत्रापि पुरस्कृतमासीदितम्।
विद्यालयप्रथमाध्यापिकायाः कृते लिखिते पत्रके छात्राणाम् इदम् उद्यमं प्रधानमन्त्री मुक्तकण्ठं प्रशशंस। पत्रके श्रीमता नरेन्द्रमोदिना सूचितं यत् महात्मगान्धिनः १५० तमे जन्मदिनसमारोहं प्रवर्तमाने अस्मिन् काले स्वच्छता तथा स्वास्थ्यं च कथं परस्परपूरकं भवतीति छात्राः सम्यक् ज्ञातवन्तः। एतत् अन्येषां छात्राणां मार्गदर्शकमपि भूयात् इति।












