Category Archives: News Updates
मार्षल् अर्जन् सिंहस्य अन्त्येष्टिः।
नवदिल्ली – भारतस्य पूर्व वायुसैन्याधिकारिणो मार्षल् अर्जन सिंहाय अद्य कृतज्ञराष्ट्रेण अश्रूपूर्ण-श्रद्धाञ्जलिः समर्पितः। अर्जनसिंहस्य अन्त्येष्टिः दिल्ली-केण्टक्षेत्रस्य बरार-स्क्वयर-स्थले वायुसैन्यबलस्य युद्धविमानानाम् आकाशीयप्रयाणेन सह सञ्जाता। तस्य सम्माने नवदिल्ल्यां प्राशासनिक-भवनेषु अद्य राष्ट्रीयध्वजः अर्धावनतः विद्यते।
मातृभाषां शक्तीकर्तुं संस्कृतं पठतु – डो. विश्वास्।
कल्पट्टा-
मातृभाषायाः प्रबलीकरणार्थं संस्कृतपठनम् अनिवार्यमेवेति केन्द्र-साहित्य-अक्कादमी पुरस्कारजेता डो. एच्.आर्. विश्वास् महोदयः प्रावोचत्। केरलीय-सामान्यशिक्षाविभागेन आयोजिते प्रान्तस्तरीय-संस्कृतदिनाघोषे मुख्यभाषणं कुर्वन्नासीत् सः। केरल विधानसभायाः कल्पट्टा सामाजिकः श्रीमान्. सी.के. शशीन्द्रः कार्यक्रमस्यास्य उद्घाटनमकरोत्। जिल्लापञ्चायत् अध्यक्षा श्रीमती उषाकुमारी कार्यक्रमस्य अध्यक्षपदवीमलङ्कृतवती। पूर्वमेव सर्वेषां स्वागतमाशंस्य संस्कृतविभागस्य विशिष्टाधिकारिणी डो. टी.डी. सुनीतीदेवी महाभागा प्राभाषत।
भूतपूर्वः डी.ई.ओ. तथा संस्कृताध्यापकश्च श्रीमान् एन्.के. रामचन्द्रः वेदिाकायां समादृतः। सामान्यशिक्षा विभागस्य अतिरिक्तनिदेशकः श्रीमान् जिम्मी.के.जोस् महाशयः आमुखभाषणमकरोत्। जिल्ला पञ्चायत् सदस्याः जिल्ला उपजिल्ला शिक्षाधिकारिणः अध्यापकसंघटनानेतारश्च आशंसाभाषणमकुर्वन्। डो. सुरोष् बाबू महाशयस्य नैदेश्ये छात्राणां सांस्कृतिककार्यक्रमोपि आयोजितः आसीत्।
संस्कृताक्षराण्युपयुज्य16300000 पदानि निर्मातुम् शक्यते – डो. मुरलीधरः।
इरिंंगालक्कुटा – यदि आंगलभाषायां दशलक्षपदानि तर्हि संस्कृते अर्थपूर्णानि त्रिषष्ट्यधिक एककोटि पदानि लेखितुं शक्यते इति डो. वि.आर्. मुरलीधरः। इरिंंगालक्कुटायां विद्याभ्यासजिल्लास्तरीयस्य संस्कृतदिनाघोषस्य उद्घाटनं कृत्वा भाषमाणः डो. वि.आर्. मुरलीधरः कालटि सर्वकलाशालायांं साहित्यविभागस्य अध्यक्षः भवति।
उपजिल्लाधिकारी श्री भरतः, के.डि. बिजुः, बि.पि.ओ.श्री सुरेष् प्रभृतयः च भाषणं कृतवन्तः।
स्वच्छता एव सेवा – राष्ट्रपतिः।
राष्ट्रपतिः रामनाथकोविन्दः अद्य उत्तरप्रदेशे काणपुरे स्वच्छता एव सेवा इति राष्ट्रव्यापिकार्यक्रमस्य शुभारम्भो विधास्यति। असौ युगपदेव देशस्य सार्धद्विलक्ष-पञ्चायत्तेषु नगरेषु च स्वच्छता एव सेवा इति प्रतिश्रुतिं विधापयिष्यति। गण्यमान्यजनैः सामुदायिकसंघटनैः व्यक्ति-क्षेत्रसंघटनैश्च श्रमदानकार्यक्रमम् अनुष्ठास्यते। कार्यक्रमो∫यं गान्धिजयन्तीपर्यन्तं प्रचलिष्यति।
राज्यस्तरीय-संस्कृतदिनाघोषः।
संस्कृतपण्डितस्य श्रीमतः रामचन्द्रमहोदयस्य कृते समादरः।
कल्पट्टा – केरलीय – संस्कृतमण्डले जाज्वल्यमानाय संस्कृतपण्डिताय श्री एन.के. रामचन्द्राय केरलीय–संस्कृतलोकस्य समादरणम्। १६–०९–२०१७ शनिवासरे रज्यस्तरीय–संस्कृतदिनाघोषस्य वेदिकायाम् आधुनिक–संस्कृतपण्डितेषु प्रमुखः, वयनाटु – विद्याभ्यासजिल्लाधिकारिस्थानात् विरामं प्राप्तः च अयं समाद्रियते इति वार्ता अस्माकं महतः सन्तोषस्य विषयः। रामचन्द्रमहोदयस्य कृते नववाण्याः सादरप्रणामः।
टोम् उषुन्नाल् पुरोहितः मुक्तः।
विश्रुतःक्रिस्तीयपुरोहितः टोम् उषुन्नाल् वर्यः भीकराणां बन्धनात् मुक्तः।२०१६ मार्च मासे यमन् देशे पर्यटनं कुर्वन् भीकरैः बद्धः उषुन्नाल् महाशयः सार्धैकवर्षं यावत् अतिक्रूरां पीडामन्वभवत्। भारतीय विदेशकार्यमन्त्रालयेन अस्य मुक्तिविषये बहुप्रयत्नं कृतम्। तथापि तस्य मुक्त्यभावात् आभारतं कैसतवसभा तथा मानवाधिकारसङ्घाश्च प्रतिषेधं कृतवन्तः। अधुना तस्य मोचने सर्वे तुष्टिं प्राकटयन्। विदेशकार्यमन्त्री श्रीमती सुषमा स्वराज् वर्या केरलमुख्यमन्त्री पिणरायि विजयश्च अस्य मोचने परितोषं प्रकटितवन्तौ।
तरुणं भारतं, नूतनं भारतम्।
प्रधानमन्त्री श्री नरेन्द्रमोदी तरुणं भारतं, नूतनं भारतम् इति विषयबिन्दुम् अवलम्ब्य नवदिल्ल्यां छात्राणां समवायं सम्बोधयिष्यति। स्वीय-ट्वीट्-सन्देश-शृङ्खलायां प्रधानमन्त्री प्रावोचत् यत् छात्राणां सम्मेलनमिदं त्रिनवत्यधिके अष्टादश-शततमे वर्षे षिक्कागोनगरे स्वामिविवेकानन्दस्य ऐतिहासिक्याः उद्बोधनायाः संस्मृतौ समुपकल्पितं विद्यते।
विकासकार्येषु केरलानां प्रामुख्यं- अल्फोण्स् कण्णन्तानम्
विकासकार्येषु केरलानां प्रामुख्यं- अल्फोण्स् कण्णन्तानम्।राज्यस्तरीयेषु विकासकार्येषु केरलराज्यस्य प्रामुख्यं दीयते इति केन्द्रीय-पर्यटक-सूचनासाङ्केतिककार्यमन्त्री श्रीमान् अल्फोण्स् कण्णन्तानं महाशयः प्रावोचत्।कोच्ची अन्ताराष्ट्र विमानपत्तने वार्ताहरान् अभिमुखीकृत्य भाषमाणः आसीत् सः।मन्त्रिपदप्राप्त्यनन्तरं केरलराज्यमागताय तस्मै राज्ये बहुत्र स्वीकरणम् आयोजितम्।
गौरीलङ्केशहत्याविषये विशिष्टान्वीक्षणवृन्दम्।
बांगलूरु – कर्णाटके पत्रकारस्य गौरीलङ्केशहत्याप्रकरणस्य अन्वीक्षणं विशिष्टान्वीक्षणदलेनारब्धम्। अस्य हत्याप्रकरणस्य अन्वीक्षणार्थं गतदिने राज्यप्रशासनेन एकविशति-सदस्यात्मकस्य विशिष्टान्वीक्षणदलस्य संघटनस्य घोषणा विहिता। कर्णाटकगृहमन्त्रिणा रामलिङ्गरेड्डिना आशा प्रकटिता यत् दोषिणः शीघ्रमेव निगाडयिष्यन्ते।













