Category Archives: News Updates

विमुद्रीकरणम् – पञ्चदश-लक्षकोटिरूप्यकाणि प्रत्यागतानि।

नवदिल्ली – कैन्द्रीय वित्तमन्त्री श्री अरुण जैट्ली अवदत् यत् विमुद्रीकरणस्य परिणामः  पूर्वतः एव अनुमानितः आसीत्। एतेन भारतस्य दीर्घकालिकः आर्थिकपरिष्कारः भविता। तथापि  विपक्षीयदलैः तन्न अङ्गीकृतमस्ति।

डोकलामक्षेत्रात् निजसैनिकाः परावर्तिताः।

नवदिल्ली – भारत-चीनादेशाभ्यां डोकलामक्षेत्रात् निजसैनिकाः परावर्तिताः। विदेशमनत्रालयस्य प्रवक्ता रवीशकुमारः व्याहरत् यत् विवादानां समाधानं सर्वदा कूटनीतिकमाध्यमेन भवेदिति भारतेन अवगम्यते।

मानभङ्गवीरस्य विंशतिमितवर्षाणि कारागृहवासः।

नवदिल्ली – देरा सच्चा सौदा प्रस्थानस्य गुरवे गुर्मीत-राम-रहिमाय वनितासाध्वीनां मानभङ्गविषये केन्द्रीय-अन्वीक्षणाभिकरण-न्यायालयेन विंशतिवर्षाणि यावत् कारागृहवासः प्रख्यापितः। तदुपरि त्रिंशत् लक्षपरिमितं रुप्यकाणि नष्टपरिहाररूपेण अनेन गुरुणा दातव्यमस्ति। तदन्तरे हरियाणा-पंजाब राज्येषु सौदासंघाङ्गानाम् आक्रमणपरम्पराः प्रचलन्ति।

राजीवगान्धिनः जन्मदिनमायोजयति।

नवदिल्ली – राष्ट्रमद्य पूर्वप्रधानमन्त्रिणः राजीवगान्धिनः त्रिसप्ततितमं जन्मदिवसमायोजयति। प्रमुखैः नेतृभिः विशिष्टजनैश्च राष्ट्रीयराजधान्यां वीरभूमि इति राजीवगान्धिनः समाधिस्थले श्रद्धाञ्जलिः समर्पयिष्यते।

ऐ.एस् भीकराक्रमणघटनायां १३ जनाः मृताः।

बार्सलोणा – नगरे पादचाराणामुपरि यानप्रहररूपेण ऐ.एस् भीकराक्रमणघटनायां १३ जनाः मृताः। तदनन्तरं  राबलस् नगरमध्ये भीकराक्रमणार्थं सञ्चितानां भीकराणामुपरि आरक्षकः गोलिकास्त्रप्रयोगं कृत्वा पञ्चभीकरानवधीत्।

कार्षिककेरलस्य नववत्सरारंभः।

तिरुवनन्तपुरम् – कोल्लवर्षस्य प्रथममासे प्रथमदिनमद्य समायोज्यते। कार्षिकसंस्कृतौ  नववर्षस्य शुभारंभः इति मन्यते जनैः चिङ्ङमासस्य प्रथमदिनम्। क्षाममासस्य  कर्किटकस्य अन्ते ऐश्वर्यसमृद्धं कर्तुं चिङ्ङमासमायाति इति विश्वासः। अस्मिन् दिने सर्वैषां केरलीयानां कृते नववाण्याः शुभाशंसाः।

बिहारराज्ये जलोपप्लवः – मृतसंख्या ५६

पट्ना – बिहारराज्ये जलोपप्लवेन इतःपर्यन्तं ५६ जनाः मृताः। आहत्य १३ जिल्लासु ६९.८१ जनाः प्रलयबाधिताः सन्ति। निजस्थितिं निर्णीतुं मुख्यमन्त्री श्री नितीषकुमारः द्विवारं व्योमनिरीक्षणं कृतवान्।

उत्तरप्रदेशे अन्वेषणसमितेः अध्यक्षः मुख्यसचिवः।

गोरख्पूर् – उत्तरप्रदेशे गोऱखपुरे चिकित्सकीय-महाविद्यालये बालानां मृत्युप्रकरणस्य अन्वेषणं मुख्यसचिवस्य  अध्यक्षतया विनिर्मितया समित्या कारयितुं घोषणा कृता। राज्यस्य चिकित्सा-शिक्षा-मन्त्री अशुतोषठण्डनः अब्रवीत् यत् घटनां परीक्षितुं राज्यस्य मुख्यसचिवस्य अध्यक्षतायां समितिः विनिर्मिता।

उत्तरप्रदेशे बालमरणं – संख्या ६३एधिता ।

उत्तरप्रदेशे बालमरणे मृतसंख्या एधिता । गोरखपुरे सर्वकारीयातुरालये प्राणवायोः अभावेन मृतेषु नवजाताः शिशवः अपि सन्ति।

कोण्ग्रस् दलीयैः आत्मपरिशोधना करणीया।

नवदिल्ली – प्रमुख-कोण्ग्रस् नेता मणि-शङ्करय्यर् महोदयः अवदत् यत् कोण्ग्रस् दलीयैः अत्मपरिशोधना करणीया इति। नूतनाशयैःः सह दलं जनानामुन्नमनाय कार्याणि आयोजनीयानि इति तस्य अभिप्रायः । अनेनैव दलस्येतस्य प्रसक्तिं परिपालयितुं शक्यते।