Category Archives: News Updates

मुद्रा निरोधः दुरन्त एव – यश्वन्त सिन्हा

नरेन्द्रमोदी सर्वकारस्य मुद्रानिरोधः दुरन्तः आसीदिति भूतपूर्वः केन्द्रमन्त्री भा.ज.पा.दलस्य नेता च श्रीमान् यश्वन्त सिन्हा महोदयः अवदत्। आर्थिकमाद्यं प्रति राष्ट्रस्य गतौ दले बहवः नेतारः प्रवर्तकाश्च अतृप्ताः इत्यपि तेन निगदितम्। आगोलविपण्यां मृत्तैलमूल्यं न्यूनमभवत्। तथापि तस्मात् धनं समाहृत्य आर्थिकघटनां पुनरुज्जीवयितुं वित्तमन्त्री किमपि नाकरोत्।तस्मिन् विषये पराजितः अभवत् धनमन्त्री इति स सूचितवान्। वाजपेयी सर्वकारे वित्तमन्त्री आसीत् यश्वन्त सिन्हा।

भारतेन पुनरेकवारं गतदिने धिक्कृतः।

काश्मीरे पैलट् भुशुण्डिकायाः दुष्प्रयोगविषयकस्य मिथ्यारोपस्य प्रमापनार्थं कस्याश्चित् गासा-क्षेत्रीयायाः युद्धाहतबालिकायाः कपटचित्रं संयुक्तराष्ट्रे सद्य प्रस्तुतवान् पाकिस्तानदेशः भारतेन गतदिने सार्वजिकरूपेण  पुनरेकवारं धिक्कृतः। संयुक्तराष्ट्रमहासभायाः वार्षिकाधिवेशने प्रत्युत्तराधिकारं प्रयुज्यमाना तत्रत्या भारतीया प्रतिनिधिः पौलोमी त्रिपाठी पाक्द्वारा प्रस्तुतस्य उक्तारोपस्य सन्दर्भे वास्तविकं प्रस्तावयन्ती अवदत् यत् अस्मिन् सन्दर्भे स्थितिः सर्वथा विपरीता विद्यते।

प्रधानमन्त्री-सहज-बिजली-हर-घर-योजना।

नवदिल्ली – १९१९ वर्षस्य मार्चमासपर्यन्तं सकलानि विद्युदापूर्ति-शून्यानि गृहाणि विद्यूद्दीपैः दीपयितुं प्रधानमन्त्रिणा गतदिने प्रधानमन्त्री-सहज-बिजली-हर-घर-योजना प्रख्यापिता।

बनारस् हिन्दु विश्वविद्यालयः – आन्दोलनम्।

उत्तरप्रदेशे बनारस्-हिन्दु विश्वविद्यालयीय-छात्राणाम् उग्रमान्देलनम् अभिलक्ष्य रज्ये सकलाः शैक्षिकसंस्थाः ओक्टोबर् मासस्य द्वितीयदिनाङ्कं यावत् पिहिताः। एतद्विश्वविद्यालयीय-परिसरे गतगुरुवासरीय रात्रौ कयाचिच्छात्रया सार्धं सञ्जातं संघर्षं विरुद्ध्य विगतेभ्यः पञ्चदिवसेभ्यः छात्राभिः निरन्तरमुग्रमान्दोलनं प्रवर्त्यते।

षार्जा प्रशासकस्य पर्यटनम्।

षार्जा इति अरब् राष्ट्रस्य प्रशासकः डो. षेय्क् सुल्तान् बिन् मुहम्मद् अल् खादिमिवर्यः पञ्चदिवसीयपर्यटनार्थम् अद्य केरलदेशमागतः। कोच्चिन् विमानपत्तने मुख्यमन्त्रिणः पिणरायि विजयस्य नेतृत्वे मन्त्रिसभाङ्गैः तस्मै ऊष्मलं स्वीकरणमायोजितम्। सप्तम्बर् २४ तः २८ पर्यन्तं सः केरलेषु पर्यटनं विधास्यति। २५ तमे दिनाङके राजभवने राज्यपालेन सह मेलनं ततः मुख्यमन्त्रिणा अन्यैः मन्त्रिभिश्च सह साक्षात्कारश्च भविष्यति। तस्य कृते कोवलं लीला राविक्स् इति अट्टपुर्यां सांस्कृतिककार्यक्रमोपि आयोजितः वर्तते।

पाकिस्तानं प्रति सुषमास्वराजः।

नवदिल्ली – गतरात्रौ संयुक्तराष्ट्रमहासभायाः वार्षिकम् अधिवेशनं संबोधयन्ती विदेशमन्त्री सुषमास्वराजः भारतं विरुद्ध्य  युद्धप्रोत्साहनार्थं प्रतिवेशिदेशः समाक्षिप्तः। श्रीमती स्वराजः अब्रवीत् यत् जगति आतङ्क-हत्यादीनां अमानवीयकृत्यानां कुख्यातः अधिनायकः देशः अद्य भारताय मानविकतायाः उपदेशान् प्रयच्छति।

मन् की बात्।

नवदिल्ली – प्रधानमन्त्री नरेन्द्रमोदी आकाशवाण्याः मन् की बात् इति कार्यक्रमे श्वः एकादशवादने स्वीय-विचारान् प्रस्तोष्यति। त्रिषष्टितमा शृङ्खलेयं भविता। अनेन सहैव अस्य कार्यक्रमस्य त्रीणि वर्षाणि सम्पूर्यन्ते।

वर्तमानार्थिकस्थितिम् अधिकृत्य चर्चा।

नवदिल्ली – वित्तमन्त्री अरुण् जेट्ली प्रावोचत् यत् प्रशासनं वर्तामानार्थिकस्थितिं निध्याय संवर्धनावश्यकतायै अतिरिक्तोपायान् समुत्थापयिष्यति। गतदिने मन्त्रमण्डलोपवेशनानन्तरं तेनोदीरितं यत् विगतदिनद्वये तेन सम्बन्धमन्त्रिभिः सचवैः च साकं विहितोपवेशने अर्थव्यवस्थाविषये चर्चा विहितास्ति। तेन सूचितं यत् डीसन्-पेट्रोल्-वात्येन्धनयोः संवर्धितमूल्यानि शीघ्रं न्यूनी भविष्यन्ति।

सामान्यविद्याभ्यासविभागेन साहित्यपुरस्काराः प्रख्यापिताः।

नारायणन् नम्पूतिरिः

  डो.सुनिलकुमार्

तिरुवनन्तपुरम् – २०१७-१८ वर्षे संस्कृताध्यापकानां कृते सामान्यविद्याभ्यासविभागेन आयोजितायाःसंस्कृतसाहित्यरचनास्पर्धायाः पुरस्काराः प्रख्यापिताः। विजयिनः प्रान्तस्तरीय-संस्कृतदिनाघोषवेदिकायां पुरस्काराः स्वीकृतवन्तः।

कथारचना –

प्रथमस्थानम् – सतीदेवी,  वेल्लनाटु,  तिरुवनन्तपुरम्।

द्वितीयस्थानम् – लक्ष्मिक्कुट्टी, ओट्टप्पालम्।

तृतीयस्थानम् – राजेन्द्रः वयनाट्।

कवितारचना –

प्रथमस्थानम् – हरिप्रसाद् वि.टि, कण्णूर्।

द्वितीयस्थानम् – राजेन्द्रः, वयनाट्।

तृतीयस्थानम् – सविता, कण्णूर्।

उपन्यासरचना –

प्रथमस्थानम् – सुधाकरः, चेर्त्तला।

द्वितीयस्थानम् – मालिनी, ओट्टप्पालम्।

तृतीयस्थानम् – डो.सुनिलकुमार्, कासरगोड्।

समस्यापूरणम् –

प्रथमस्थानम् – डो. सुनिलकुमार्, कासरगोड्।

द्वितीयस्थानम् – राजेन्द्रः, वयनाट्।

तृतीयस्थानम् – नारायणन् नम्पूतीरि, वयनाट्

 

अर्थव्यवस्थायाः वृद्धेः उपायान् विधास्यति – अरुण् जेट्ली।

नवदिल्ली – वित्तमन्त्रिणा अरुण् जेट्लिना प्रोक्तं यत् वर्तमान-अर्थव्यवस्थायाः वृद्धेः विवर्धनार्थं यदि आवश्यकता भवेत् तर्हि प्रशासनम् अतिरिक्तान् उपायान् विधास्यति। असौ केन्द्रीय मन्त्रिमण्डलस्य उपवेशनानन्तरं वार्ताहरैः सम्भाषते स्म। तेन भणितं यत् असौ अर्थव्यवस्थया सम्बन्धैः मन्त्रिभिः सचिवैस्सह द्विदिवसाभ्यन्तरे मन्त्रणा विहिता।