Category Archives: News Updates
मुद्रानिरोधः- सज्जीकरणाय समयः देयः आसीत्।-अरुन्धती भट्टाचार्या।
नवदेहली- मुद्रानिरेधार्थं भारते सज्जीकरणम् आवश्यकमासीत्। तदर्थं समयो/पि देयः आसीदिति भारतीय राज्य वित्तकोशस्य (SBI)भूतपूर्वा मेधावी श्रीमती आरुन्धती भट्टाचार्या अवदत्। आवश्यकः समयः अदास्यत् चेत् प्रवर्तनानि सफलानि अभविष्यत्। मुद्रां कस्माच्चिद्देशात् इतरत्र नेतुं एस्.बी.एे. संस्थायाः पृथक् नियमाः सन्ति। अकस्मात् मुद्रानिरोधघोषणा वित्तकोशान् प्रतिसन्धिमनयत् इति च सा सूचितवती। मुद्रानिरोधानन्तरं ए.टी.एं. मध्ये नूतनीं मुद्राम् अलभमानाः सामान्यजनाः वित्तकोशान् विरुध्य रूक्षं विमर्शनमपि अकुर्वन्।
गते वर्षे नवम्बर् ८ दिनाङ्के ५००, १००० मूल्यरूप्यकाणां मुद्रां निरोद्धुं प्रधानमन्त्री निर्णयमकरोत्।
पुनत्तिल् कुञ्ञब्दुल्ला वर्यः दिवंगतः।
जातीयस्पर्धासंवर्धकेषु विषयेषु तीव्रा कर्मचेष्टा आवश्यकी-मुख्यमन्त्री।
विश्वचषक-पादकन्दुकक्रीडायाः अन्तिमस्पर्धा।
एस्.एस्. एल्.सी. परीक्षायां परिष्कारः- समयसारिणी प्रख्यापिता।
एस्.एस्.एल्.सी. परीक्षा अस्मात् वर्षादारभ्य परिष्कृतरूपेण प्रचलिष्यति। परीक्षादिनाङ्काः प्रख्यापिता। २०१८ मार्च ७तः २६पर्यन्तं परीक्षा भविष्यति। मातृका परीक्षा फेब्रूवरी १२ तः २१ पर्यन्तं भविष्यति।परीक्षाप्रश्नसञ्चयेषु छात्रैः निर्मिताः प्रश्नाःअपि उन्नीयन्ते। छात्राः चोद्यान् निर्मीय शिक्षकान् समर्पयन्ति। शिक्षकाः तेषां प्रश्नानां साङ्गत्यं परीक्ष्य संशोध्य च प्रश्नसञ्चयेषु जालपुटद्वारा उन्नेष्यन्ति। तानि चोद्यानि तत्तच्छात्राणां नाम्नि प्रश्नसञ्चयेषु उपलभ्यन्ते।
ऐ.वी. शशी मृतिमुपगतः
चेन्नै – विख्यातः कैरलीचलचित्रनिदेशकः ऐ.वी. शशी महाभागः दिवंगतः। आमयपीडया आतुरालयं नीयमानः आसीत्। मध्येमार्गं कालकबलितो/भूत्। चेन्नैपुर्याम् अद्य प्रातः ११ वादने आसीत् देहवियोगः। प्रसिद्धा अभिनेत्री सीमा अस्ति तस्य पत्नी। १९७५ तः आरभ्य कैरलीचलच्चित्रमण्डले जाज्वल्यमानं नक्षत्रप्रकाण्डं भवत्ययम्। इतः पर्यन्तं १५० अधिकं चलचित्राणां निदेशनम् अनेन कृतम्। बहवः पुरस्काराः अपि स्वायत्तीकृतः। तस्य वियोगे मुख्यमन्त्री पिणरायि विजयः अन्वशोचयत्। चलच्चित्रमण्डले बहवः तस्मै श्रद्धाञ्जलिमर्पयन्तः सन्ति।
गुरुवायुपुरमन्दिरे अहिन्दूनां प्रवेशः, सर्वकारेण पुरो गन्तव्यम् – तन्त्री।
गुरुपवनपुरमन्दिरे हैन्दवेतराणां प्रवेशसम्बन्धिनि विषये सर्वकारस्य पादन्यासः आवश्यकः इति मन्दिरस्य तन्त्री चेन्नास् दिनेशन् नम्पूतिरिवर्यः। अस्मिन् विषये तन्त्री-पण्डितसमाजैः सह सम्मन्त्र्य कार्याणि कुर्यात् इति स न्यवेदयत्।
आचाराणां कालानुसृतं परिवर्तनम् आवश्यकम्। एतादृक्षु विषयेषु सर्वकाराणां निर्णयः परमप्रधाऩः इति स अवोचत्। सर्वकारस्य निर्णयेन सहकर्तुं सन्नद्ध इत्यपि सो/सूचयत्।
कौमारकेरळानाम् आवेगस्य अद्य परिसमाप्तिः
क्रीडाप्रेमिषु उत्साहं पूरयन् एकषष्ठितमः विद्यालयीयक्रीडासमारोहः पालानगरस्थे नूतने सांस्लेषिकरेखामार्गे अद्य समाप्तिमेष्यति। सायं ४.३० वादने क्रीडाङ्कणे सम्पद्यमानं समापनसमापोहं विपक्षिदलनेता रमेश् चेन्नित्तला वर्यःउद्घाटयिष्यति। पाला सदस्यस्य श्रीमतः के.एं. माणी वर्यस्य आध्यक्ष्ये शिक्षामन्त्री प्रोफ. रवीन्द्रनाथः चषकपुरस्कादीन् वितरिष्यति।
क्रीडामेलायां २०५ अङ्कैः एरणाकुलं जिल्ला अग्रे सरति।१७५ विभागाः इतःपर्यन्तं समाप्ताः। २२ विभागाः अवशिष्टाः। द्वितीयस्थाने १३४ अङ्कैः पालक्काट्, तृतीयस्थाने ८६अङ्कैः काषिक्कोट् च एरणाकुलम् अनुगछतः।
एष्या चषक होक्की स्पर्धा-विजयकिरीटः भारताय।
एष्याभूखण्डस्य होक्कीस्पर्धाविजयिनः स्थानं भारतेन स्वायत्तीकृतम्। मलेष्यया सह क्रीडने एकं विरुद्ध्य लक्ष्यकन्दुकद्वयेन भारतं विजयकिरीटमधारयत्। भारतस्य सङ्घात् रमण्दीप् सिंहः ललित् उपाध्यायश्च लक्ष्यकन्दुके सम्पदितवन्तौ। एष्या चषकस्पर्धायां भारतं सप्तमवारं क्रीडान्तिमचरणं प्राप्नोति। तेषु तृतीयो/यं विजयः। अस्मिन् क्रीडासत्रे सर्वास्वपि स्पर्धासु भारतेन विजयः प्राप्तः आसीत्।
सुषमा स्वराज् महाभागायाः बंग्लादेश् पर्यटनम्
भारतस्य विदेशकार्यमन्त्री सुषमा स्वराज् वर्या बंग्लादेश् प्रधानमन्त्रिणा षेख् हसीनया सह मेलिष्यति। द्विदिवसीयसन्दर्शनार्थं बंग्लीदेशराष्ट्रं प्राप्ता सुषमा महाभागा जे.सी.सी. अधिवेशने/पि भागं भजिष्यति।
सुषमा महाभागायाः द्वितीयं बंग्लादेशपर्यटनं भवतीदम्। २०१४ तमे वर्षे सा तत्र प्रथमवारं सन्दर्शनं व्यधास्यत्। षेख् हसीनया सह मेलने उभयोः राष्ट्रयोः मिथः राष्ट्रतन्त्रकार्य़ाण्यपि चर्चाविषयः भविष्यति। गते एप्रिल् मासे षेख् हसीनायाः भारतपर्यटनं संवृत्तमासीत्।















