ऐ.वी. शशी मृतिमुपगतः

चेन्नै – विख्यातः कैरलीचलचित्रनिदेशकः ऐ.वी. शशी महाभागः दिवंगतः। आमयपीडया आतुरालयं नीयमानः आसीत्। मध्येमार्गं कालकबलितो/भूत्। चेन्नैपुर्याम् अद्य प्रातः ११ वादने आसीत् देहवियोगः। प्रसिद्धा अभिनेत्री सीमा अस्ति तस्य पत्नी। १९७५ तः आरभ्य कैरलीचलच्चित्रमण्डले जाज्वल्यमानं नक्षत्रप्रकाण्डं भवत्ययम्। इतः पर्यन्तं १५० अधिकं चलचित्राणां निदेशनम् अनेन कृतम्। बहवः पुरस्काराः अपि स्वायत्तीकृतः। तस्य वियोगे मुख्यमन्त्री पिणरायि विजयः अन्वशोचयत्। चलच्चित्रमण्डले बहवः तस्मै श्रद्धाञ्जलिमर्पयन्तः सन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *