Category Archives: News Updates

स्त्रीसुरक्षा विषये गोवा प्रथमस्थाने, केरलस्य द्वितीयं स्थानम्।

नवदिल्ली- भारते स्त्रीसुरक्षापट्टिकायां केरलं द्वितीयस्थाने। शिक्षा स्वास्थ्यं आक्रमणात् सुरक्षा इत्येतान् घटकान् परीक्ष्य सज्जीकृता भवति पट्टिकेयम्। प्रथमल्थाने गोवा राज्यं भवति।  २०११ आरभ्य जनगणतिप्रभृतिभ्यः दत्ताभ्यः अंशान् स्वीकृत्य पट्टिका निर्मिता।

एषुत्तच्छन् पुरस्कारः कवये सच्चिदानन्दाय।

अस्य वर्षस्य एषुत्तच्छन् पुरस्काराय  प्रशस्तः कविः सच्चिदानन्दः अर्हो/भवत्। पञ्चलक्षं रूप्यकाणि प्रशस्तिपत्रं च पुरस्कारः। कैरलीसाहित्याय समग्रं योगदानमभिलक्ष्य केरलसर्वकारैः आयोजितः परमोन्नतः पुरस्कारः भवत्ययम्। गते वर्षे सी. राधाकृष्णः आसीत् पुरस्कारविजेता। केरलराज्यस्य जन्मदिने एव पुरस्कारः घोषितः।

अद्य केरलानां जन्मदिनम्।

अद्य केरलराज्यस्य औद्योगिकं जन्मदिनमाचरन्ति कैरलीयाः। १९५६ तमे वर्षे नवम्बर् मासस्य प्रथमे दिने भवति केरलराज्यस्य रूपवत्करणम्। अनया मलयाळभाषया व्यवहारं कृतवतां जनानां समूहः केरलमिति नाम्ना प्रत्येकं राज्यम् अलभत।  दिने∫स्मिन् मालिन्यमुक्तकेरलमित्यादयः नैकाः पद्धतयः केरलसर्वकारेण प्रारम्भ्यन्ते। सन्दर्भे∫स्मिन् सर्वेषां केरलीयानां कृते नववाण्याः शुभाशंसाः।

संस्कृताध्यापकपरिषदः राज्यस्तरीयं सम्मेलनम्।

कासरगोड् – केरलीय संस्कृताध्यापकपरिषदः राज्यस्तरीयं सम्मेलनम् आगामीवर्षस्य फेब्रुवरि मासे २२-२४ दिनांकेषु  कासरगोड् जिल्लायां प्रचलिष्यति। एतत्सम्मेलनम् अभिलक्ष्य स्वागतसंघस्य रूपवत्करणमत्र सम्पन्नम्।  योगे∫स्मिन् रषीद् पूरणम् अध्यक्षभाषणमकरोत्। ऐ.वि. भट्ट् योगस्य उद्घाटकः आसीत्। के सुनिलकुमार्, के.के.गिरीषकुमार्, निलमन शंकरः, हरिकृष्णः, के.टि. मधु, के. कृष्णप्रसाद्, के गणेषकुमार्, इ.ए. अरुणकुमार् च भाषणं कृतवन्तः।

इन्दिरागान्धिनः स्मरणदिनम्।

नवदिल्ली – राष्ट्रमद्य प्राक्तनप्रधानमन्त्रिणः इन्दिरागान्धी महाभागायाः त्रयस्त्रिंशत्तमां स्मरणापुण्यतिथिम् उपलक्ष्य तस्यै श्रद्धाञ्जलिं समर्पयति। नवदिल्ल्यां तस्याः समाधिस्थले शक्तिस्थले नेतृभिः गण्यमानजनैश्च श्रद्धाञ्जलिः समर्पयिष्यते। अवसरे∫स्मिन् नैके कार्यक्रमाः समायोज्यन्ते।

सेतुः भित्वा एका मृता, बहवः आहताः।

कोल्लम्- कोल्लं जनपदे चवरा देशे अयोनिर्मितः पुरातनः सेतुः भित्वा जले पतितः। अस्यां दुर्घटनायां एका मृता, विंशतिपरिमिताः आहताः सन्तः कोल्लं जनपदचिकित्सालयं प्रवेशिताः। चवरा देशीया श्यामला देवी एव मृता। प्रातः ११ वादने आसीत् दुर्घटना। के.एं.एं.एल्. संस्थायाः कर्मकराः एव अपघाते पतिताः। तद्देशीयस्य राष्ट्रिय जलमार्गस्य तिरश्चीनतया  बहोः कालात् पूर्वं निर्मितः आसीत् अयोमयः सेतुः।

गायिका एस्. जानकी सङ्गीतवेदिकाम् आपृच्छत्।

संगीतवेदिकां त्यक्तुं गायिका एस्. जानकीवर्या निरणयत्। ह्यस्तने मैसूरुनगरे आयोजिते सामान्याधिवेशने आराधकवृन्दम् अश्रुणा सम्पूर्य आतृप्ति गायन्ती सा वेदिकाम् अत्यजत्। अन्तरालरहितं होराचतुष्टयम् आराधकेभ्यो शुद्धं सङ्गीतं ददती इतःपरं चलचित्रे संगीतनिशायां च न आलपिष्यति। तस्याः वयसः आधिक्यं शुद्धस्वरं बाधते इति शङ्कया एव सा गीतकार्यक्रमान् त्यक्तुं निश्चिकाय। मैरूरु नगरे मानसगंगोत्री मध्ये आसीत् अन्तिमा वेदिका। मलयालं तेलुगु तमिल् कन्नटभाषासु बहूनि गानानि सा तत्र आलपितवती।

हादियायाः मोचनार्थं तुरन्तप्रवर्तनम् अनिवार्यम् – सच्चिदानन्दः।

नवदेहली – हादियां बन्धनात् मोक्तुं शारीरिकतया मानसिकतया च तां सुरक्षितां कर्तुम् अधिकारान् संरक्षितुं च सर्वकारसंस्थाः स्त्री-मानवाधिकारसंघटनाश्च शीघ्रं प्रयतेरन्  इति कविः सच्चिदानन्दः प्रावोचत्। हादियाव्यवहारस्य धर्मसम्बन्धः नास्ति। न्यायालयाः पितरौ स्वयंप्रख्यापितसंरक्षकाश्च सम्भूय कस्याश्चन वनितायाः मौलिकाधिकारान् घ्नन्ति। तादृशी समस्या एषा इति दि वयर् जालपुटमाध्यमे लिखिते लेखे स ऊचिवान्।

व्यवहारे उच्चन्यायालयस्य निर्णयः पक्षपातपरः इस्लां विरुद्धतारूपश्च। हादियायाः विचारादीन् न्यायालयः न पर्यगणयत्। स्त्रियः अपि स्वकीया इच्छा अस्तीति कार्यं निरासयत्। केरलेषु मिश्रविवाहाः वर्धन्ते। स्त्रीशिक्षायां वृत्तौ च सम्भूतम् औन्नत्यमेवास्य कारणम्। एतत् समाजस्य प्रगतेः सूचनारूपेण द्रष्टव्यमित्यपि स अवादीत्।

न्यायालयेषु जनानां विश्वासः नष्टो मा भूत् – राष्ट्रपतिः।

नीतिव्यवस्थायां जनानाम् उन्नतः विश्वासः अस्ति। स विश्वासः परिरक्षणीयः इति राष्ट्रपतिः रामनाथ कोविन्दः अभिभाषकान् उदबोधयत्। एरणाकुलं जनपदे केरलीयोच्चन्यायालयस्य वज्रजयन्तीसमरोहस्य समापनाधिवेशनम् उद्घाटयन् भाषमाणः आसीत् राष्ट्रपतिः।

सामान्यजनानां केवलं नीतिलाभेन किमपि प्रयोजनं नास्ति। जनाः न्यायालयस्य आदेशः मातृभाषायां लभेरन् इति च सः चोदितवान्।

केरलं राज्यान्तराणाम् आदर्शभूतं राज्यं, सर्वेषु रङ्गेषु पुरोवर्ति-राष्ट्रपतिः।

तिरुवनन्तपुरम्- केरलदेशं पुनरपि प्रकीर्तयन् राष्ट्रपतिः रामनाथ कोविन्दः। आरोग्य-शिक्षा-पर्यटनादिषु रङ्गेषु केरलम् अग्रे सरति। अतिथिसत्कारे अपि केरलं समस्तमपि विश्वम् अतिशेते इति राष्ट्रपतिना निगदितम्।

केरलं भारतस्य अङ्कीय-शक्तिदुर्गः भवति। टेक्नोसिट्टी राष्ट्रस्य अभिमानमेव इति च सः अवदत्। पल्लिप्पुरं टेक्नोसिट्टी पद्धतेः प्रथममन्दिराय शिलान्यासं कुर्वन् भाषमाणः आसीत् राष्ट्रपतिः।

टेक्नोसिट्टी समुच्चये प्रथमं ऐ.टी.मन्दिरं २०१९ तमे वर्षे पूर्तीकरिष्यति इति अस्मिन् समारोहे भाषमाणः मुख्यमन्त्री पिणरायि विजयः अवदत्।

द्विदिवसीयसन्दर्शनार्थमेव राष्ट्रपतिः अद्य केरलं प्राप्तवान्। व्योमसेनायाः विशेषविमाने केरलराजधानीं प्राप्तं राष्ट्रपतिं मुख्यमन्त्री पिणरायि विजयः, राज्यपालः ज. पी. सदाशिवं,  कटन्नप्पल्लि रामचन्द्रः,  मात्यू.टी.तोमस् इति द्वौ मन्त्रिणौ  मुख्यसचिवः, रक्षिदलनेता च सम्भूय प्रत्युज्जगमुः।