Category Archives: News Updates

गेयिल् विरुद्धसमरः, अद्य निर्णयो भविष्यति।

कोषिक्कोट् – गेयिल् विरुद्धसमरस्य विरामार्थं राज्यसर्वकारस्य परिश्रमः विजयपथं प्राप्नोति। ह्यस्तने आयोजिते सार्वदलीयाधिवेशने आशङ्काः सामान्यतः परिहृताः आसीत्। गेयिल् परियोजनां प्रति जनमनसि सञ्जातः मिथ्याबोधः नूनम् अवसीयते इति उद्योगमन्त्री ए.सी. मोय्तीन् वर्यः प्रत्याशां प्राकटयत्। गृहं नष्टवतां पुनरधिवासः निश्चितः भवतीति सार्वदलीयाधिवेशनानन्तरं मन्त्रिवर्यः सूचितवान्। जनानाम् आशङ्कापरिबारार्थं ग्रामतलेषु सेवासङ्घः (हेल्प् डेस्क्) आयोजयिष्यते। सुरक्षां दृढयितुं सर्वाणि कार्याणि स्वीकरिष्यतीत्यपि स न्यगादीत्।

विद्यालयसौधात् पतित्वा छात्रा आहता।

कोट्टयम् – विद्यालयसौधात् पतित्वा एका छात्रा आहता। कटुत्तुरूत्तिदेशस्थे सेय्न्ट् मैक्किल्स् विद्यालये दशमकक्ष्यायां पठन्ती छात्रा एव पतिता। छात्रां समीपस्थं वैयक्तिकचिकित्सालयं प्रावेशयत्। गतदिवसे कोल्लं ट्रिनिट्टी लैस्यं विद्यालये समाना घटना सञ्जाता परं तत्र पतिता बालिका मृता आसीत्। अध्यापिकाभिः कृता मानसिकपीडा एव तत्र आत्महत्यायाः कारणमिति रक्षिदलं निरणयत्।

हेलि कोप्टर् दुर्धटना, सौदी राजकुमारः मृतः।

रियाद् – यमन् सीमनि सञ्जातायां व्योमयानदुर्घटनायां सौदी राजकुमारः मन्सूर् बिन् मुक्रिन् कालकबलीभूतः। असिर् प्रविश्यायाम् उपपाज्यपालः अस्त्ययम्। नगरपालः, उपसचिवः, प्रबन्धकश्च तस्य सहयात्रिकः आसीत्। तेषामवस्थां प्रति सूचना न लब्धा, सर्वे मृताः इति अनौद्योगिकी सूचना। दुर्घटनाकारणमपि अज्ञातमेव। अबहा प्रदेशात् ६० कि.मी. मिते दूरे समुद्रतीरे आसीत् दुर्घटना। आभ्यन्तरयुद्धेन नष्टप्रायस्य यमन् देशस्य दक्षिणसीमां संदृश्यमानः आसीदयम्। तदानीम् अपघातः समभवत्।

निर्भय् प्रक्षेपास्त्रं पुनः परीक्षणाय सज्जं भवति।

नवदेहली – भारतस्य देशीय भौमोपरितलप्रक्षेपास्त्रं निर्भय् नामकं पुनरपि परीक्षणाय सज्जं भवति। भाविनि सप्ताहे अस्य पञ्चमं परीक्षणं भविता। डिफन्स् इन्स्टिट्यूट् आफ् फिसियोळजी आन्ट् अलैड् सयन्स् संस्थया आयोजिते आन्ताराष्ट्राधिवेशने डि.आर्.डि. ओ. मुख्यः क्रिस्टफर् महाशयः एव वार्तामिमां सूचितवान्। २०१६ डिसेम्बर् मासे ओडीषा तीरे कृतं परीक्षणं विफलमासीत्। विक्षेपणात् परम् एकादशे निमेषे प्रक्षेपास्त्रस्य नियन्त्रणं विनष्टं जातम्।

७५० तः १००० कि.मी. पर्यन्तं दूरपरिधिभूतं निर्भय् प्रक्षेपास्त्रं स्थलात् युद्धविमानात् युद्धपोतात् अन्तर्वाहिन्याश्च विक्षेप्तुं शक्यम्। रोक्कट् सदृशं लम्बरूपेण उत्तीर्य विमानसदृशं तिरश्चीनं डयतुमपि इदं प्रभवति।

राष्ट्रीयविचारसत्रं तृप्पूणित्तुरा संस्कृतकलाशालायाम्।

तृप्पूणित्तुरा – नवम्बर् ६तः १ पर्यन्तं तृप्पूणित्तुरा संस्कृतकलाशालायां राष्ट्रीयविचारसत्रम् आयोज्यते। ब्रह्मसूत्रभाष्यं भामितीं चाधारीकृत्यैव विचारसभा प्रचाल्यते। विचारसभायां प्रसिद्धः वेदान्तपण्डितः मणिद्रविडशास्त्री, श्रीपादसुब्रमण्यं, महाबलेश्वरभट्टः, इत्येते महाशयाः प्रबन्धान् प्रस्तुवन्ति।

मादकांशयुक्तानाम् औषधानां नियन्त्रणम्।

अनन्तपुरम् – उन्मादकांशयुक्तान् औषधान् औषधशालायां विक्रेतुं सर्वकारः नियन्त्रणमायोजयति। एतादृशमौषधम् इतः परं विक्रेतुं क्रेतुं च चिकित्सकस्य निर्देशयुक्तं कागदपत्रम् आवश्यकम्। औषधविक्रेता एतत् स्वीकृत्य स्वशालायां पञ्चीकुर्यात्। औषधशालासु निरीक्षणं शक्तं कर्तुं स्वास्थ्यविभागः निरणयत्।

मादकावस्थाप्राप्तये एतादृषमौषधं बहवः उपयुञ्जति। एषा रीतिः स्वास्थ्याय हानिकरा भवति। अतः एव सर्वकारेण  नियन्त्रणमायोजितम्।

अद्य गुरुनानाक् जयन्ती।

अद्य अशेषे∫पि देशे गुरुनानाक जयन्ती समायोज्यते। सिख-धर्मावलम्बिनां कृते दिवसो∫यं पवित्रतमदिवसेन आमान्यते। सिख-धर्मस्थापकस्य गुरुनानाकदेवस्य शिक्षां स्मारयितुं दिवसो∫यं परिपाल्यते। सर्वेषां सिख-धर्मावलम्बिनां कृते नववाण्याः शुभाशयाः।

चेन्नै नगरे अतिवृष्टिः अनुवर्तते‍‍‍।

चेन्नै – चेन्नै नगरे अतिवृष्टिः अद्यापि अनुवर्तते। विद्याभ्याससंस्थानां विरामः घोषितः।अतिवृष्ट्या समुद्रतीरजनपदाः जलोपप्लवेन दुरितमयाः अभवन्। भाविनि २४ होराभ्यन्तरे अतिवृष्टिः अनुवर्तिष्यते इति सूचना अस्ति।

अपघाते पतितानां कृते ४८ होरापर्यन्तं निःशुल्का चिकित्सा।

तिरुवनन्तपुरम् – रथ्यायाम् अपघाते पतित्वा चिकित्सालयं प्रवेशितानां कृते ४८ होरा पर्यन्तं निश्शुल्कां चिकित्सां प्रदातुं केरलसर्वकारः निरणयत्। एतदर्थं ट्रोमा केयर् नामिका परियोजना आविष्करणीया इति मुख्यमन्त्रिणः पिणरायि विजयस्य आध्यक्ष्ये सम्पन्ने उन्नतसमितेः अधिवेशने निर्णयो जातः।

चिकित्सालये प्रविष्टे सति ४८ होरावधि रोगिणः बन्धुभ्यो वा धनस्वीकारं विनैव चिकित्सा प्रदानार्थं निर्देशमेव परिगणयति। ४८ होराभ्यन्तरे क्रियमाणायाः अत्यासन्नचिकित्सायाः व्ययः सर्वकारेण दीयते। एषा धनराशिः अभिरक्षानिगमात् सर्वकारेण स्वीक्रियते च।

उदयभानोः पश्चात् प्रमुखाः निगृहीष्यन्ते।

एरणाकुलम् – भूविक्रयानुयोजकस्य राजीवस्य हत्याकाण्डे अभिभाषकः उदयभानुः तादृशाः प्रमुखाश्च गृहीताः। तदनु केचन प्रगल्भाः विषये∫स्मिन् प्रतिसन्धिमेष्यति इति सूचना। राजीवस्य हत्यायाः पृष्ठभूमौ भूविक्रयानुबन्धाः अत्याचाराः एवेति स्पष्टमभवत्। तान् सर्वान् गृहीतुं अत्याचारिणः नियमपरिधौ नेतुं च सुसन्नद्धं भवति रक्षिदलम्।