Category Archives: News Updates

एष्यायाः मध्य-पूर्वभागे महान् भूकम्पः, १३५ जनाः मृताः

टेहरान् – मध्य-पूर्व-एष्यां प्रकम्पयन् महान् भूकम्पः सञ्जातः। इरान् – इराक् सीमनि एव भूकम्पेन महानाशः समभवत्। भूकम्पेन मृतानां संख्या १३५ जाता। एषु १२९ जनाः इरान् देशे हताः, अपि च तत्र त्रिशताधिकं जनाः आहताः। रक्षाप्रवर्तनानि अनुवर्तन्ते।

कुवैट्, यु.ए.ई. तुर्क्की प्रभृतिषु देशेष्वपि भूचलनम् अभवत् परन्तु जननाशः न आवेदितः।

गौरी लङ्केशहत्या, अपराधिनः गृहीतप्रायाः।

बङ्गलूरु – वरिष्ठायाः माध्यमप्रवर्तिकायाः तथा सङ्घपरिवारविमर्शिकायाश्च गौरी लङ्केशवर्यायाः हत्याकाण्डे व्यवहारः अचिरेण पूर्तीकरिष्यतीति कर्णाटकराज्यस्य गृहमन्त्री रामलिङ्गरेड्डी अवदत्। एकसप्ताहाभ्यन्तरे हत्यायां भागं गृहीतानां नामानि अनाच्छादयिष्यति इत्यपि स न्यगादीत्।

अभिशस्तानां यथार्थचित्राणि लब्धानि। अधुना प्रामाण्यसम्पादनं प्रवर्तते। नरेन्द्र धाबोल्कर्, गोविन्द पन्सारे प्रभृतीनां वधव्यवहारवत् अस्याः हत्यायाः अन्वेषणं स्थगितं न भविष्यति। घातकानां ग्रहणं नूनं भविष्यति इत्यपि स अब्रवीत्।

नवमकक्ष्यायां पराजितानां छात्राणां कृते परिरक्षा।

नवमकक्ष्यायां पराजितानां छात्राणां कृते परिरक्ष वर्षमेकम्(S A Y) परीक्षाम् आयोजयितुं अनुमतिं दत्त्वा राज्यसर्वकारेण आदेशः प्रसिद्धीकृतः। राज्य बालाधिकारायोगस्य निर्देशानुसारमेव सर्वकारः एवम् आदिदेशः एतदनुसारं मेय् मासे से इति परीक्षामायोज्य तस्मिन् उत्तीर्णान् छात्रान् जूण् प्रथमे वारे दशमकक्ष्यायां प्रवेशयिष्यति इति केरलीय शिक्षा निदेशकः निरदिशत्।

कुलभूषणजादवं दृष्टुं पत्न्यै पाकिस्थानस्य अनुमतिः।

नवदेहली – मृत्युदण्डं प्राप्य पाकिस्थाने कारायां बद्धं कुलभूषणजादवं सन्दृष्टुं तस्य पत्नी अनुमता। मानवीयपरिगणनामनुसृत्यैव अनुमतिरिति पाकिस्थान् विदेशकार्यमन्त्रालयः असूचयत्। कुलभूषणस्य परिवारे प्रथमवारमेव तं दृष्टुम् अनुमतिः जाता। पूर्वं तस्य मातुः  कृते अनुमत्यर्थम् अभ्यर्थितमासीत्। परन्तु अनुमतिः निरस्ता।

गते मार्च् मासे पाक् प्रविश्याभूतात् बलूचिस्तानात् गृहीतः आसीत् जादवः। सैन्यसेवनात् विरामानन्तरम् इरानस्थे चबहर् नैकाश्रयपत्तने वस्तुयातायातव्यापारे निरतः आसीत् ४६ वयस्कः जातवः।

वरिष्ठनागरिकाणां कृते रिसर्वबैंक्।

मुम्बै – भारतीयरिसर्वबैंकेन सर्वाण्यपि बैंकानि निर्दिष्टानि यत् तानि सप्ततिवर्षतो∫धिकेभ्यः वरिष्ठनागरिकेभ्यः द्वारेषु बैंकसौविध्यम् उपपादयेयुः। वर्षे∫स्मिन् डिसम्बर्ममासस्य एकत्रिंंशत् दिनपर्यन्तं तेषां निर्देेेशानाां प्रवर्तनार्थ्ंं बैंंकाानि निर्दिष्ट्टानिि।

जिषायाः पिता मृतावस्थायाम्।

पेरुम्पावूर् देशे अतिक्रूरेण पीडनेन निहतायाः जिषा नामिकायाः पिता पाप्पू निहतरूपेण दृष्टः। अामयपीडया बहुकालं स चिकित्सायामासीत्। रक्षिदलेन अन्वेषणमारब्धम्। अधिकसूचनाः न लब्धाः।

गतवर्षे एप्रिल् २८ दिनाङ्के पेरुम्पावूर् कुरुप्पं पटि देशे असुरक्षिते गृहे आसीत् जिषायाः हत्या।

सोलार् आयोगस्य आवेदनं विधानसभायां प्रास्तौत्।

अनन्तपुरी- सोलार् विषये व्यावहारिकायोगस्य अन्वेषणावेदनं मुख्यमन्त्री श्री पिणरायि विजयः सभायां प्रास्तौत्। अद्य प्रातः नववादने प्रारब्दे सभायाः विशेषाधिवेशने प्रथमं नूतनसदस्यः के.एन्.ए. खादर् वर्यः शपथमग्रहीत्।तदनन्तरमेव आवेदनस्य प्रस्तुतीकरणमभवत्। सेलार् वञ्चनाकाण्डे अन्वेषणाय नियुक्तः न्यायाधीशः शिवराजः १०७३ पुटयुक्तम् आवेदनं पूर्वमेव समर्पितवानासीत्। आवेदनस्य प्रस्तुतीकरणानन्तरं सभायां महान् कोलाहलः सञ्जातः

हैदराबाद् महानगरे भिक्षाटनं निरुद्धम्।

हैदराबाद् – हैदराबाद् नगरे अधिकारिभिः भिक्षाटनं निरुद्धम्। इतःपरं भिक्षामटन्तः दणडार्हाः भविष्यन्ति इति महानगरारक्षिदलमुख्यः सूचनामदात्। गतागतसम्मर्देषु पदातिषु च मध्ये भिक्षाटनं कुर्वन्तः सामान्यजनानां क्लेशाय कल्पन्ते इत्यावेदनानुसारमेव एष निर्णयः। केषाञ्चन सङ्घटनानां सर्वेक्षणानुसारं अस्मिन् महानगरे १४००० भिक्षाटकाः सन्ति, तेषु १५०० परिमिताः बालकाश्च भवन्ति।

विमुद्रीकरणनिर्णयस्य अद्य वार्षिकम्।

नवदिल्ली – प्रशासनस्य विमुद्रीकरणनिर्णयस्य अद्य वर्षपूर्तिः वर्तते। गतवर्षे नवम्बर् मासस्य अष्टमे दिवसे पञ्चशतैकसहस्ररूप्यकाणां पुरातनधनपत्राणां प्रत्यावर्तननिर्णयः स्वीकृतः आसीत्। वित्तमन्त्री अरुण् जेट्ली गतदिने वार्ताहरान् संबोधयन् अवोचत् यत् विमुद्रीकरणस्य क्रियान्वितेः अनन्तरं दृश्ये पारदृश्या स्वच्छतरा सत्यनिष्ठा च वित्तीयव्यवस्था समक्षमायाता।

एष्यन् मुष्टियुद्धस्पर्धायां मेरी कोम् अन्तिमचरणं प्राप्ता।

भारतस्य क्रीडकप्रतिभा मेरी कों वर्या एष्या मुष्टिप्रहरयुद्धस्पर्धायाः अन्तिमचरणं प्रविष्टा। जापानस्य टाबस् कोमुरा महाभागं विजित्यैव एषा प्राप्तिः। पूर्वं पञ्चवारं विश्वविजेता भवति मेरी कोम्। अधुना एष्या वैभवस्पर्धायाः अन्तिमे चरणे सा स्पर्धिता। अस्यां स्पर्धायां अस्याः पञ्चमा अन्तिमचरणस्पर्धा भवतीयम्। अत्र विजेष्यति चेत् एष्या स्पर्धायाम् अस्याः प्रथमं सुवर्णपतकं भविष्यति।