प्रोः मुरलीमाधवः राष्ट्रपतिपुरस्कारेण बहुमानितः।

तृश्शूर् – 2017 वर्षस्य राष्ट्रपतिपुरस्कारेण प्रसिद्धः संस्कृतपण्डितः प्रोः मुरलीमाधवः बहुमानितः। संस्कृतभाषाप्रवर्तनानि तथा साहित्ययोगदानानि च परिकल्प्य अयं पुरस्कारः समर्प्यते। पञ्चलक्षं रुप्यकाणि प्रशस्तिपत्रं स्मारकफलकञ्च पुरस्कारस्वरूपम्। मार्च् मासस्य अन्तिमवारे आयोज्यमाने सम्मेलने पुरस्कारं समर्पयिष्यति।

     प्रोः मुरलीमाधवः श्रीशङ्कराचार्यसंस्कृतसर्वकलाशालायां तथा राष्ट्रीय संस्कृत संस्थानस्य गुरुवायूर् केन्द्रे च संस्कृतसाहित्यविभागस्य अध्यक्षपदवीम् आवहन्नासीत्। कलाशालायाः शासकसमित्या संस्कृतस्य प्रतिनिधिरूपेण, केन्द्रसाहित्य अक्कादमी संस्थायाः उपदेशकरूपेण च कर्मनिरतः आसीत् अयं पण्डितः। संस्कृतम् आङ्गलेयम् कैरली भाषासु प्रवीणो∫यं 25 अधिकान् ग्रन्थान् शताधिकान् अनुसन्धानप्रबन्धान् च व्यरचयत्।

     प्रोः मुरलीमाधवः संस्कृतभाषाप्रचारणप्रवर्तनेषु तत्परो भवति। संस्कृतपण्डितस्य पि.सि. वासुदेवन् इलयत् वर्यस्य तथा पार्वती वर्यायाश्च पुत्रः भवति अयं महात्मा।

     महात्मने तस्मै नववाणीपरिवारस्य आशंसाः समर्पये।

Leave a Reply

Your email address will not be published. Required fields are marked *